________________
२१८
तत्वसंग्रहे भवन्तु, 'अभाव' इत्यादिकास्तु कथमिवात्यन्तविलक्षणास्तन्निबन्धना युज्येरन्, न हि सत्तावशाद् गोत्वादिधीर्भवेत् ॥७६७-७६९॥
____ भाविविक्तस्त्वाह- "न हि सर्वत्र निमित्तानुरूपः प्रत्यय इष्यते। तथा हिगजतुरगधवखदिरादिसमवायिनी बहुत्वसङ्ख्या सेनावनादिबुद्धीनां निमित्तम्, पानककाञ्जिकादिबुद्धीनां विजातीयद्रव्यसंयोगो निमित्तम्, अन्यथा हि 'बहवः संयुक्ताः' इति च प्रत्ययः स्यात्" इति, तदेतत् न निभित्तेत्यादिनाऽऽशङ्कय यद्येवमित्यादिना प्रतिविधत्ते
न निमित्तानुरूपा चेत् स्वस्मिन् बुद्धिरिष्यते। यतस्सेनादिबुद्धीनां सङ्ख्यादीष्टं निबन्धनम् ॥७७०॥ यद्येवमियमेष्वेव भेदेष्विष्टा न किं मतिः। .
इच्छारचितसङ्केतभेदाभोगानुसारिणी ॥७७१॥ इयमिति सामान्यधीः । सङ्केतस्य भेदो विशेषः ॥७७०-७७१ ॥ क: पुनरत्रातिशयो येनैवमुच्यते? इत्याह- .
भेदज्ञाने सतीच्छा हि संकेतकरणे ततः।। तत्कृतिस्तच्छृतिश्चास्या आभोगस्तन्मतिस्ततः ॥७७२॥ अन्वयव्यतिरेकाभ्यामियदेव' विनिश्चितम्।
समर्थ कारणं यस्यामन्येषामनवस्थितिः ॥७७३॥ . अन्वयव्यतिरेकसमधिगम्यः कार्यकारणभावः, स च सामान्यधियं प्रतीच्छारचितसङ्केताभोगमात्रस्य निश्चितः । तथा हि-प्रथमतरं ताव भेदविषयमनुभवज्ञानमुत्पद्यते, तस्मिनुत्पन्ने सङ्केतकरणेच्छा जायते, ततश्चेच्छातस्तस्य सङ्केतस्य कृतिःकरणम्, ततस्तस्यैव व्यवहारकाले श्रुतिः- श्रवणम्, अस्याश्च श्रुतेः सकाशादुत्तरकालमाभोगो यथाश्रुतसङ्केतविषयः, ततश्चाभोगात् तेष्वेव भेदेषु तदध्यवसायेन प्रवृत्ते 'घट' इत्यादिका मतिरुदयमासादयति। आगोपालमेतावन्मात्रमेवास्यां बुद्धौ कारणत्वेन निश्चितम् । अपरिदृष्टसामर्थ्यस्य तु सामान्यस्य कारणत्वोपकल्पनेऽतिप्रसङ्गः स्यात्, तदपि कल्पयित्वाऽपरमप्यदृष्टसामर्थ्येन तुल्यत्वात् किमिति न कल्प्येत ॥ ७७२-७७३ ।। तत्रैवोपचयमाह
अनुरूपो हि संसर्गी स्यादित्यन्यार्थकल्पना।। वैलक्षण्ये तु बुद्धीनामियदेवाश्रितं वरम् ॥७७४॥ सामर्थ्य नियमो ह्यत्र कल्पनीयो वरं स च।
अन्वयव्यतिरेकाभ्यां कल्पितो ज्ञातशक्तिषु ॥७७५॥ [G.252) तथा हि भवद्भिः सामान्यबुद्धीनामनुरूपमालम्बनाख्यं हेतुं निरूपयद्भिः भेदान्यर्बुदस्य सामान्यमुपकल्पितम्, यदि च तदपि कल्पितं सामान्यमन्याकारा अपि बुद्धीर्जनयति, तदा वरमियदेव, यदेव यथोपवर्णितं दृष्टसामर्थ्य कल्पितं भवेत्, एवं ह्यदृष्टार्थकल्पना न कृता स्यात्। अपि च-कथमभिन्न सामान्यं विलक्षणबुद्धीर्जनयतीति पृष्टेन सता वक्तव्यमिद१-१. मिदमेव०- पा०, गा० । 'अन्वयव्यतिरेकाभ्यां कल्पितो ज्ञातशक्तिषु'-इति जै० पुस्तके पाठान्तरम्।