________________
सामान्य (जाति) परीक्षा
२१९ मवश्यम्-यदुत शक्तिप्रतिनियमोऽयं पदार्थानां यदेकमपि सदनेकाकारप्रत्ययोपजननायालमिति । यद्येवम्, ज्ञातशक्तिषु निश्चितसामर्थ्येषु भेदादिष्वेव सामर्थ्यनियामकमिति न कल्प्येत। एवं हि नानुभवविरुद्धमनुष्ठितं स्यात् ।। ७७४-७७५ ॥ स्यादेतत्-सामान्यस्याप्यन्वयव्यतिरेकाभ्यां सामर्थ्यं निश्चितमेवेत्याह
अन्वयानुविधानं च सामान्येषु न विद्यते।
सदाऽसत्त्वान्न नित्यानां व्यतिरेकस्तु सम्भवी ॥७७६ ॥ सदा सदादिप्रत्ययानामसत्त्वादनुत्पत्तेर्नैषां तद्गतान्वयानुविधायित्वं युक्तम्। यदि ह्येते सामान्यनुविधायिनः स्युः, तदा सर्वदा सामान्यस्यावस्थितत्वात् किमिति सदा न भवेयुः, न हि सामान्यस्य काचिदपेक्षास्ति, परैस्तस्यानुपाधेयविशेषत्वात्, अतो न तद्गतान्वयानुविधानमेषाम्। नापि व्यतिरेकानुविधानम्, तथा हि-यदाऽमी सदादिप्रत्यया नोत्पद्यन्ते, तदा तत्र सामान्याभावः कारणमिति न शक्यं वक्तुम्; नित्यानां सदाऽवस्थायितया व्यतिरेकासम्भवात्, अतो नापि तद्गतव्यतिरेकानुविधानमेषामस्ति ॥७७६ ॥
यतश्चैवं निमित्तान्तराभ्युपगमे सामान्यादिधियां दोषः; तस्माद्यत् परैरुच्यते"गुणत्वादिरेव सामान्यविशेषो गुणादिष्वद्रव्याकर्मादिप्रत्ययहेतुः, सामान्येषु च सत्तादिषु सामान्यमित्यनुगतप्रत्ययस्यानेकार्थसमवायो निमित्तम्" ( ) इति,तदपास्तं भवतीत्येतदाह
अद्रव्यादिधियो हेतुर्न गुणत्वादि युक्तिमत्।
अनेकसमवायश्च न सामान्यधियस्ततः ॥७७७॥ [G.253} अतिप्रसङ्गश्चास्यामपि कल्पनायामिति दर्शयन्नाह
. अनेकसमवायश्च सङ्ग्यादिष्वपि विद्यते।
. सामान्येष्विव तेषु स्युः सामान्यमिति बुद्धयः ॥७७८॥ . यद्यनेकार्थसमवायः सामान्येषु सामान्यधियो निबन्धनं स्यात्, तदा सङ्ख्यासंयोगविभागावयविद्रव्यादिष्वनेकद्रव्याश्रितत्वमस्तीति तेष्वपि सामान्यमिति धियः स्युः; निमित्ताविशेषात् । एकबुद्धिहेतुत्वमपि सत्तादीनां सदाद्याकारेण स्वात्मनियतत्वान्न सामान्यान्तरमास्कन्दति, ततश्च तद्बलेनापि न सामान्येषु 'सामान्यं सामान्यम्' इत्यनुगतः प्रत्यय उपपद्यते। ततश्चासम्बद्धमिदं कुमारिलेनोक्तम्
"तस्मादेकस्य भिन्नेषु या वृत्तिस्तन्निबन्धनः। सामान्यशब्दः सत्तादावेकधीकरणेन वा"॥
.. (ो० वा०, आकृ. २४) इति ॥ ७७८ ॥ एवं तावद् "वैलक्षण्यात्" (तत्त्व० ७६७) इत्येतद्व्याख्यातम्, “अतदाश्रयात्" (तत्त्व० ७६७) इत्येतद्व्याचिख्यासुराह
घटत्वादि च सामान्यं घटादावेव वर्तते । नाभावेष्वस्य वृत्तिस्तु तस्मात् तेषु कथं नु धीः ॥७७९ ॥ नाश्रयान्तरवृत्ताद्धि युक्तावन्यत्र धीध्वनी ।