________________
तत्वसंग्रहे
हस्तित्वादिव कर्कादावत्रैकार्थाश्रयोऽपि न ॥ ७८० ॥ रसः शीतो गुरुश्चेति स्यादेकार्थाश्रयान्मतिः । इहायमपि नैवास्ति नाभावो वर्तते क्वचित् ॥ ७८१ ॥ घटादिष्वेव सामान्यं समवेतम्, नाभावेषु; तस्यावस्तुत्वात् । तत्कथं तेष्वभावे घटत्वादेरन्यसमवायिनः सामान्यनुकारानुगतः प्रत्ययो भवेत् । न हि गजत्वादि कर्कोटकाकारप्रत्ययनिबन्धनं भवति ।
२२०
ननु चान्यत्र समवेतादप्यन्यत्र प्रत्ययो दृष्टः, तद्यथा - मधुरो रसः स्निग्धः शीतो गुरुश्चेति ? अत्राह - एकार्थाश्रयोऽपि नेति । यत्रैव हि द्रव्ये माधुर्यं समवेतं तत्रैव शीतत्वादयोऽपीत्येकार्थसमवायबलादत्र भवति सामानधिकरण्यम्, न तु पुनरंभावो घटत्वादिसामान्यैः सह क्वचिदप्येकस्मिन् द्रव्ये समवैति; नीरूपस्य क्वचिदपि समवायायोगात् ॥ ७७९-७८१ ॥ विशेषणेत्यादिनाऽत्रो द्द्योतकरस्य परिहारमाशङ्कते -
विशेषणविशेष्यत्वसम्बन्धोऽस्तीति चेदिह ।
. [G.254] स ह्याह-" घटत्वादीनां घटादिभिः समवायलक्षणः सम्बन्धः, अभावानां तु विशेषणविशेष्यभावलक्षणः, ततश्च सामान्याभावयोरेकार्थसम्बन्धोऽत्रापि व्यपदेशहेतुरस्त्येव" ( ) इति ।
तदत्र प्रतिविधानमाह
सम्बधान्तरसद्भावे ननु चासौ प्रकल्प्यते ॥ ७८२ ॥ तयोरासत्तिमाश्रित्य • विशेषणविशेष्यता ।
कल्प्यते तदभावे तु साऽनिमित्ता न सिध्यति ॥ ७८३ ॥ सम्बन्धान्तरोपजनितो हि भावानां परस्परं विशेषणविशेष्यभावः, तद्यथा - दण्डदेवदत्तयोः राजपुरुषयोश्च संयोग-स्वस्वामिभावादिकं सम्बन्धमाश्रित्य विशेषणविशेष्यता) तस्य तु सम्बन्धान्तरस्य विशेषणविशेष्यभावं प्रति निमित्तभूतस्याभावे सा विशेषणविशेष्यता कथमिव भवेत्, अन्यथा ह्यतिप्रसङ्गः स्यात् ! एवं हि सर्वं सर्वस्य विशेषणं भवेत् ॥ ७८२-७८३ ॥ कथमिदानीम् 'घटस्य प्रागभावः' इत्यादिविशेषणविशेष्यभावो लोके सम्बन्धमन्तरेण प्रतीतः ? इत्यह
'घटस्य प्रागभावोऽयम्' इत्यादि वचनं पुनः । कल्पनामात्रनिर्माणं कल्पिते शूरतादिवत् ॥ ७८४ ॥ विशेषणविशेष्यत्वं यत्र वस्तुसमाश्रयम् । सम्बन्धान्तरसद्भावस्तत्रावश्यं प्रकल्प्यते ॥ ७८५ ॥
प्रागभूत्वा भवतीत्येतन्मात्रजिज्ञासायां बुद्धिरियं कल्पिका भावादर्थान्तरभूतमिव सम्बन्धेन प्रागभावमुपदर्शयन्ती प्रसूयते । तदभिप्रायवशादत्र विशेषणविशेष्यभावः, न तु वास्तवः। यथा कल्पनाशिल्पिघटितस्य शूरत्वादयो धर्मा विशेषणत्वेनोपादीयन्ते । यत्र तु
१.०ऽप्यस्ति पा०, गा० । २. तथावश्यं - पा०, गा० ।