Book Title: Tapagaccha Pattavali
Author(s): Kalyanvijay Gani
Publisher: Vijaynitisurishwarji Jain Library
View full book text
________________
५४५दी] : २१३ ..
શ્રી આણદવિમળસૂરિ सिरिविजयदाणसूरी, पट्टे सगवण्णए ५७ अ अडवण्णे । सिरिहीरविजयसूरी ५८, संपइ तवगणदिणिंदसमा ॥ १९ ॥
तत्पढे श्रीविजयदानसरिः।
तत्पट्टे श्रीहीरविजयमारिः। ગાથાર્થ –શ્રીઆણંદવિમળસરિની પાટે સત્તાવનામાં પટ્ટધર શ્રી વિજયદાનસૂરિ થયા અને તેમની પાટે તપગચ્છરૂપી ગગનમાં સૂર્યસમાન શ્રી હીરવિજયસૂરિ અઠ્ઠાવનમા પટ્ટધર થયા. ૧૯
व्याख्या-६७ सिरिविजयत्ति-श्रीआनन्दविमलसूरिपट्टे सप्तपंचाशत्तमः श्रीविजयदानसूरिः । येन भगवता स्तंभतीर्थाऽ-हम्मदावाद-पत्तन-महीशानक गन्धारबंदिरादिपु महामहोत्सवपुरस्सरमनेकजिनबिंबशतानि प्रतिष्ठितानि ।।
यदुपदेशमवाप्य सूरत्राणमहिमूदमान्येन मंत्रिगलराजाऽपरनामकमलिकाश्रीनगदलेनाऽश्रुतपूर्वी पाण्मासों शत्रुजयमुक्तिं कारयित्वा सर्वत्र कुंकुमपत्रिकाप्रेषणपुरस्सरसम्मोलिताऽनेकदेश-नगरग्रामादिसंघसमेतेन श्रीशत्रुजययात्रा, मुक्ताफलादिना श्रीशत्रुनयवर्धापनं श्रीभरतचक्रिवच्चक्रे ।
तथा यदुपदेशपरायणैर्गाधारीय सा० रामजी, अहम्मदावादसत्क सं० कुंअरजीप्रभृतिभिः शत्रुजये चतुर्मुखाऽष्टापदादिप्रासादा देवकुलिकाश्च कारिताः । उज्जयन्तगिरौ जीर्णप्रासादोंद्वारश्च॥
तथा सूर्यस्येव यस्योदये तारका इवोत्कटवादिनोऽदृश्यतां प्रापुः ।
यो भगवान् सिद्धांतपारगामी अखण्डितप्रतापाज्ञोऽप्रमत्तया रूपश्रिया च श्रीगौतमप्रतिमो गूर्जर-मालव-मरुस्थली-कुंकुणादिदेशेष्वशेषेप्वप्रतिबद्धविहारी षष्ठाऽष्टमादितपः कुर्वन्नपि यावजीवं घृताऽतिरिक्तविकृतिपंचकपरिहारी मादृशामपि शिष्याणां श्रुतादिदाने वैश्रमणाऽनुकारी अनेकवारैकादशांगपुस्तकशुद्धिकारी ! किंबहुना ? तीर्थकर इव हितोपदेशादिना परोपकारी सर्वजनप्रतीतः ॥
तस्य वि० त्रिपंचाशदधिके पंचदशशत १५५३ वर्षे जामलास्थाने जन्म, द्वाषष्ठ्यधिके १५६२ दीक्षा, सप्ताशीत्यधिके १५८७ सूरिपदं, द्वाविंशत्यधिकषोडशशत १६२२ वर्षे वटपल्यामनशनादिना सम्यगाराधनपुरस्सरं स्वर्गः ॥
५८ अडवण्णेत्ति-श्रीविजयदान सूरिपट्टेऽष्टपञ्चाशत्तमाः श्रीहीरविजयसूरयः । कि विशिष्टाः १ संप्रति तपागच्छे आदित्यसदृशास्तदुद्योतकत्वात् । तेषां विक्रमतः त्र्यशीत्यधिके पश्चदशशतवर्षे १५८३ मार्गशीर्षशुक्लनवमीदिने प्रलादनपुरवास्तव्य ऊकेशज्ञातीय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354