Book Title: Tapagaccha Pattavali
Author(s): Kalyanvijay Gani
Publisher: Vijaynitisurishwarji Jain Library
View full book text
________________
महोपाध्यायश्रीधर्मसागरगणिरचितं श्रीतपागच्छपट्टावली सूत्रम्
[स्वोपनया वृत्या समलंकृतम्] सिरिमंतो सुहहेउ, गुरुपरिवाडीइ आगओ संतो।
पज्जोसवणाकप्पो, वाइजह तेण तं वुच्छं ॥१॥ व्याख्या-सिरिमंतोत्ति, यत्तदोनित्याभिसंबंधात् येन कारणेन श्रीमान् सश्रीकः श्रियां मंत्रो वा पर्युषणाकल्पो गुरुपरिपाट्या समागतः सन् वाच्यते । उपलक्षणात् श्रूयते च । किं लक्षणः ? शुभहेतुः स्वर्गापवर्गकारण । तेन कारणेनाहं तां गुरुपरिपाटीं वक्ष्ये इत्यन्वयः । श्रीमानिति विशेषणं तीर्थकरचरित्रस्थविरावलीनामकीर्तनपुरस्सरं साध्वाचारप्रतिपादनेन सर्वेष्वपि मंगलभतेषु श्रुतेषु सश्रीकत्वमस्यैवेति ख्यापनपरमिति । गुरुपरिपाट्यागत इति च विशेषणं । गुरुपरिपाट्यागतयोगाद्यनुष्ठानविधिनैव वाच्यमानः । 'एगग्गचित्ता जिणसासणम्मि, पभावणापूभपरायणाजे।' इत्यादि विधिना च श्रूयमाणः, शुभहेतुर्मोक्षफलहेतुर्नान्यथेति ज्ञापनपरमिति गाथार्थः ॥ १ ॥
गुरुपरिवाडीमूलं, तित्थयरो बदमाणनामेणं । तप्पडोदयपढमो, सुहम्मनामेण (१) गणसामी ॥२॥
-श्री वर्धमानतीर्थकरः । १ तत्पढे श्रीसुधर्मास्वामी । व्याख्या-गुरुपरिवाडित्ति, गुरुपरिपाट्या मूलमाथं कारणं वर्धमाननाम्ना तीर्थकरः । तीर्थकतो हि आचार्यपरिपाट्या उत्पत्तिहेतवो भवंति न पुनस्तदंतर्गताः । तेषां स्वयमेव तीर्थप्रवर्तनेन कस्यापि पट्टधरत्वाभावात् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/f96f3816e1965bc1436d45ee1543bea3fafac2d09f4a10a0085bdee5355707e4.jpg)
Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354