Book Title: Tapagaccha Pattavali
Author(s): Kalyanvijay Gani
Publisher: Vijaynitisurishwarji Jain Library

View full book text
Previous | Next

Page 326
________________ .: २७४ : बङ्गालाद्यभिधानानामनेकदेशसमुदायात्मकानां द्वादशसूबानां चाऽधीश्वरो महाराजाधिराजशिर:शेखरः पातिसाहिश्रीअकब्बरनरपतिः स्वकीयाऽखिलदेशेषु पाण्मासिकाऽमारिप्रवर्तनं जीजयाऽभिधानकरमोचनं च विधाय सकललोकेषु जाग्रत्प्रभावभवनं श्रीजिनशासनं जनितवान् । तद् व्यतिकरो विस्तरतः श्रीहीरसौभाग्यकाव्यादिभ्योऽवसेयः । समासतस्त्वेवम् । एकदा कदाचित् प्रधानपुरुषाणां मुखवार्त्तया श्रीमदगुरूणां निरुपमशमदमसंवेगवैराग्यादिगुणगणश्रवणतश्चमत्कृतचेतसा पातिसाहि-श्रीअकब्बरेण स्वनामाङ्कितं फुरमानं प्रेष्याऽतिबहुमानपुरस्सरं गधारबंदिरात् दिल्लीदेशे आगराख्यनगरसन्नश्रीफतेपुरनगरे दर्शनकृते समाकारिताः सन्तोऽनेकभव्यजनक्षेत्रेषु बोधिबोज वपन्त: श्रीगुरवः क्रमेण विहारं कुर्वाणाः विक्रमत एकोनचत्वारिंशदधिकषोडशशतवर्षे १६३९ ज्येष्टबहुलत्रयोदशीदिने तत्र संप्राप्ताः । तदानीमेव च तदीय प्रधानशिरोमणि-शेष(ख)श्रीअबलफजलाख्यद्वारा उपाध्यायश्रीविमलहर्षगणिप्रभृत्योंकमुनिनिकरपरिकरिताः श्रीसाहिना समं मिलिताः । तदवसरे च श्रीमत्साहिना सादरं स्वागतादि पृष्ट्वा स्वकीयास्थानमण्डपे समुपवेश्य च परमेश्वरस्वरूपं, धर्मस्वरूपं च कीदृशं कथं च परमेश्वरः प्राप्यत इत्यादि धर्मगोचरो विचारः प्रष्टुमारेभे । तदनु श्रीगुरुभिरमृतमधुरया गिराऽष्टादशदोषविधुरपरमेश्वरपञ्चमहाव्रतस्वरूपनिरूपणादिना तथा धर्मोपदेशो ददे यथा आगराद्रगतोऽजमेरभगरं यावदध्वनि प्रतिक्रोशं कपिकोपेतमनारान्विधाय स्वकीयाखेटककलाकुशलताप्रकटनरूते प्रतिमनारं शतशो हरिणविषाणारोपणविधानादिना प्राग हिंसादिकरणरतिरपि स भूपतिर्दयादानयतिसङ्गतिकरणादिप्रवणमतिः सञ्जातः । ततोऽतीवसन्तुष्टमनसा श्रीसाहिंना प्रोक्तम्-यत् पुत्रकलत्रधनस्वनमदेहादिषु निरीहेभ्यः श्रीमदभ्यो हिरण्यादिदानं न युक्तिमत् । अतो यस्मदीयमन्दिरे पुरातनं जैनसिद्धान्तादिपुस्तकं समस्ति, तल्लात्वाऽस्माकमनुग्रहो विधेयः । पश्चात् पुनः पुनराग्रहावशात् तत्समादाय श्रीगुरुभिः आगराख्यनगरे चित्कोशतयाऽमोचि । तत्र साधिकप्रहरं यावद्धर्मगोष्ठी विधाय श्रीमत्साहिना समनुज्ञाता: श्रीगुरवो महताडम्बरेण उपाश्रये समाजग्मुः। ततः सकलेऽपि लोके प्रवचनोन्नतिः स्फीतिमती सञ्जाता । तस्मिन् वर्षे आगराख्यनगरे चतुर्मासककरणान्तरं सुरीपुरे श्रीनेमिजिनयात्राकृते समागतैः श्रीगुरुभिः पुरातनयोः श्रीऋषभदेव-नेमिनाथसम्बन्धिन्योर्महत्योः प्रतिमयोस्तदानीमेव निर्मितश्रीनेमिजिनपादुकायाश्च प्रतिष्ठा कृता । तद्नु आगराख्यनगरे सा० मानसिंह कल्याणमल्लकारितश्रीचिन्तामणिपार्श्वनाथादिबिम्बानां प्रतिष्ठा शतशः सुवर्णटकव्ययादिना महामहेन निर्मिता । तत्तीर्थ च प्रथितप्रभावं सातमस्ति । ५ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354