________________
.:
२७४
:
बङ्गालाद्यभिधानानामनेकदेशसमुदायात्मकानां द्वादशसूबानां चाऽधीश्वरो महाराजाधिराजशिर:शेखरः पातिसाहिश्रीअकब्बरनरपतिः स्वकीयाऽखिलदेशेषु पाण्मासिकाऽमारिप्रवर्तनं जीजयाऽभिधानकरमोचनं च विधाय सकललोकेषु जाग्रत्प्रभावभवनं श्रीजिनशासनं जनितवान् । तद् व्यतिकरो विस्तरतः श्रीहीरसौभाग्यकाव्यादिभ्योऽवसेयः । समासतस्त्वेवम् ।
एकदा कदाचित् प्रधानपुरुषाणां मुखवार्त्तया श्रीमदगुरूणां निरुपमशमदमसंवेगवैराग्यादिगुणगणश्रवणतश्चमत्कृतचेतसा पातिसाहि-श्रीअकब्बरेण स्वनामाङ्कितं फुरमानं प्रेष्याऽतिबहुमानपुरस्सरं गधारबंदिरात् दिल्लीदेशे आगराख्यनगरसन्नश्रीफतेपुरनगरे दर्शनकृते समाकारिताः सन्तोऽनेकभव्यजनक्षेत्रेषु बोधिबोज वपन्त: श्रीगुरवः क्रमेण विहारं कुर्वाणाः विक्रमत एकोनचत्वारिंशदधिकषोडशशतवर्षे १६३९ ज्येष्टबहुलत्रयोदशीदिने तत्र संप्राप्ताः । तदानीमेव च तदीय प्रधानशिरोमणि-शेष(ख)श्रीअबलफजलाख्यद्वारा उपाध्यायश्रीविमलहर्षगणिप्रभृत्योंकमुनिनिकरपरिकरिताः श्रीसाहिना समं मिलिताः । तदवसरे च श्रीमत्साहिना सादरं स्वागतादि पृष्ट्वा स्वकीयास्थानमण्डपे समुपवेश्य च परमेश्वरस्वरूपं, धर्मस्वरूपं च कीदृशं कथं च परमेश्वरः प्राप्यत इत्यादि धर्मगोचरो विचारः प्रष्टुमारेभे । तदनु श्रीगुरुभिरमृतमधुरया गिराऽष्टादशदोषविधुरपरमेश्वरपञ्चमहाव्रतस्वरूपनिरूपणादिना तथा धर्मोपदेशो ददे यथा आगराद्रगतोऽजमेरभगरं यावदध्वनि प्रतिक्रोशं कपिकोपेतमनारान्विधाय स्वकीयाखेटककलाकुशलताप्रकटनरूते प्रतिमनारं शतशो हरिणविषाणारोपणविधानादिना प्राग हिंसादिकरणरतिरपि स भूपतिर्दयादानयतिसङ्गतिकरणादिप्रवणमतिः सञ्जातः ।
ततोऽतीवसन्तुष्टमनसा श्रीसाहिंना प्रोक्तम्-यत् पुत्रकलत्रधनस्वनमदेहादिषु निरीहेभ्यः श्रीमदभ्यो हिरण्यादिदानं न युक्तिमत् । अतो यस्मदीयमन्दिरे पुरातनं जैनसिद्धान्तादिपुस्तकं समस्ति, तल्लात्वाऽस्माकमनुग्रहो विधेयः । पश्चात् पुनः पुनराग्रहावशात् तत्समादाय श्रीगुरुभिः आगराख्यनगरे चित्कोशतयाऽमोचि । तत्र साधिकप्रहरं यावद्धर्मगोष्ठी विधाय श्रीमत्साहिना समनुज्ञाता: श्रीगुरवो महताडम्बरेण उपाश्रये समाजग्मुः। ततः सकलेऽपि लोके प्रवचनोन्नतिः स्फीतिमती सञ्जाता ।
तस्मिन् वर्षे आगराख्यनगरे चतुर्मासककरणान्तरं सुरीपुरे श्रीनेमिजिनयात्राकृते समागतैः श्रीगुरुभिः पुरातनयोः श्रीऋषभदेव-नेमिनाथसम्बन्धिन्योर्महत्योः प्रतिमयोस्तदानीमेव निर्मितश्रीनेमिजिनपादुकायाश्च प्रतिष्ठा कृता । तद्नु आगराख्यनगरे सा० मानसिंह कल्याणमल्लकारितश्रीचिन्तामणिपार्श्वनाथादिबिम्बानां प्रतिष्ठा शतशः सुवर्णटकव्ययादिना महामहेन निर्मिता । तत्तीर्थ च प्रथितप्रभावं सातमस्ति ।
५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org