________________
: २७२ : गूर्जर-मालव-मरुस्थली-कुंकुणादिदेशेष्वप्रतिबद्धविहारी षष्ठाऽष्टमादितपः कुर्वन्नपि यावज्जीवं धृताऽतिरिक्तविकृतिपंचकपरिहारी मादृशामपि शिष्याणां श्रुतादिदाने वैश्रमणाऽनुकारी अनेकवारकादशांगपुस्तकशुद्धिकारी । किं बहुना ? तीर्थकर इव हितोपदेशादिना परोपकारी सर्वजनप्रतीतः ॥
तस्य वि० त्रिपंचाशदधिके पंचदशशत १५५३ वर्षे जामलास्थाने जन्म, द्वाषष्ठयधिके १५६२ दीक्षा, सप्ताशीत्यधिके १५८७ सूरिपदं, द्वाविंशत्यधिकषोडशशत १६२२ वर्षे वटपल्यामनशनादिना सम्यगाराधनपुरस्सरं स्वर्गः ॥
५८ अडवण्णेत्ति, श्रीविजयदानसूरिपट्टेऽष्टपञ्चाशत्तमाः श्रीहीरविजयसूरयः । किं विशिष्टाः ? संप्रति तपागच्छे आदित्यसदृशास्तदुद्योतकत्वात् । तेषां विक्रमतः त्र्यशीत्यधिके पञ्चदशशतवर्षे १५८३ मार्गशीर्षशुक्लनवमीदिने प्रहलादनपुरवास्तव्य ऊकेशज्ञातोय सा० कुंराभार्यानाथीगृहे जन्म, षण्णवत्यधिके १५९६ कार्तिकबहुलद्वितीयायां २ पत्तननगरे दीक्षा, सप्ताऽधिके षोडशशतवर्षे १६०७ नारदपुर्या श्रीऋषभदेवप्रासादे पण्डितपदम् । अष्टाधिके १६०८ माघशुक्लपञ्चमीदिने नारदपुर्या श्रीवरकाणकपार्श्वनाथसनाथे श्रीनेमिनाथप्रासादे वाचकपदम् । दशाधिके १६१० सीरोहीनगरे सूरिपदम् ॥
तथा येषां सौभाग्यवैराग्यनिःस्पृहतादिगुणश्रेणेरेकमपि गुणं वचोगाचरीकर्तुं वाचस्पतिरप्यचतुरः । तथा स्तम्भतीर्थे येषु स्थितेषु तत्रत्य श्रद्धालुभिः टङ्कानामेका कोटिः प्रभावनादिभिर्व्ययीकृता । येषां चरणविन्यासे प्रतिपदं सुवर्णटङ्करूप्यनाणकमोचनं पुरतश्च मुक्ताफलादिभिः स्वस्तिकरचनं प्रायस्तदुपरि च रौप्यकनाणकमोचनं चेत्यादि संप्रत्यपि प्रत्यक्षसिद्धम् ॥
येश्च सीरोह्यां श्रीकुन्थुनाथबिम्बानां प्रतिष्ठा कृता । तथा नारदपुर्यामनेकानि जिनबिम्बानि प्रतिष्ठानि । तथा स्तम्भतीर्थाऽहम्मदावादपत्तननगरादौ अनेकटङ्कलक्षव्ययप्रकृष्टाभिरनेकाभिः प्रतिष्ठाभिः सहस्रशो बिंबानि प्रतिष्ठितानि । येषां च विहारादौ युगप्रधानसमानाऽतिशयाः प्रत्यक्षसिद्धा एव ॥
तथाऽहम्मदावादनगरे लुकामताऽधिपतिः ऋषिमेघजीनामा स्वकीयमताऽऽधिपत्यं " दुर्गतिहेतु " रिति मत्वा रज इव परित्यज्य पञ्चविंशतिमुनिभिः सह सकलराजाधिराजपातिसाहि-श्रीअकब्बरराजाज्ञापूर्वकं तदीयाऽऽतोद्यवादनादिना महामहपुरस्सरं प्रव्रज्य यदीय पादाम्भोजसेवापरायणो जातः । एतादृशं च न कस्याऽप्याऽऽचार्यस्य श्रुतपूर्वम् ।
किञ्च । येषामशेषसंविग्नसृरिशेखराणामुपदेशात् सहस्रशो गजानां लक्षशो वाजिना गूर्जर-मालव-विहार--अयोध्या-प्रयाग-फतेहपुर-दिल्ली-लाहुर-मुलतान-क्याबिल -अजमेर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org