Book Title: Tapagaccha Pattavali
Author(s): Kalyanvijay Gani
Publisher: Vijaynitisurishwarji Jain Library
View full book text
________________
: २७५ : सीरोहीनगरे समागताः । तत्रापि नवीनचतुर्मुखप्रासादे श्रीआदिनाथादिबिम्बानाम् , श्रीअजितजिनप्रासादे श्रीअजितजिनादिबिम्बानां च क्रमेण प्रतिष्ठाद्वयं विधाय अर्बुदाचले यात्रार्थ प्रस्थिताः, तत्र विधिना यात्रां विधाय यावद्धरित्रीदिशि पादावधारणं विदधति तावत् महारायश्रीसुलतानजीकेन सीरोहीदेशे पुरा कराऽतिपीडितस्य लोकस्य अथ पीडां न विधास्यामि, मारिनिवारणं च करिष्यामीत्यादिविज्ञप्तिं स्वप्रधानपुरुषमुखेन विधाय श्रीगुरवः सीरोह्यां चतुर्मासीकरणायाऽत्याग्रहात् समाकारिताः । पश्चात् तद्राजोपरोधेन, तद्देशीयलोकानुकम्पया च तत्र चतुर्मासों विधाय क्रमेण रोहसरोतरमार्गे विहारं कुर्वन्तः श्रीपत्तननगरं पावितवन्तः । अथ पुरा श्रीसूरिराजैः श्रीसाहिहृदयाऽऽलवालरोपिता कृपालतोपाध्यायश्रीशान्तिचंद्रगणिभिः स्वोपज्ञकृपारसकोशाख्यश्रावणजलेन सिक्का सती वृद्धिमती बभूव । तदभिज्ञानं च श्रीमत्साहिजन्मसम्बन्धी मासः, श्रीपर्युषणापर्वसत्कानि द्वादशदिनानि, सर्वेऽपि रविवाराः, सर्वसंक्रान्तितिथयः, नवरोजसत्को मासः, सर्वे ईदवासराः, सर्वे मिहरवासराः, सोफीआनकवासराश्चेति पाण्मासिकामारिसत्कफुरमानं, जीजीआभिधानकरमोचनसत्कानि फुरमानानि च श्रीमत्साहिपार्थात् समानीय धरित्रीदेशे श्रीगुरूणां प्राभृतीकृतानीति । एतच्च सर्वजनप्रतीतमेव । तत्र नवरोनादिवासराणां व्यक्तिस्तत्फुरमानतोऽवसेया । किञ्च, अस्मिन् दिल्लीदेशविहारे श्रीमदगुरूणां श्रीमत्साहिप्रदत्तबहुमानतः निष्प्रतिमरूपादिगुणगणानां श्रवणवोक्षणतश्चानेकम्लेच्छादिजातीया अपि सद्यो मद्यमांसाशनजीवहिंसनादिरति परित्यज्य सद्धर्मकर्मासक्तमतयः, तथा केचन प्रवचनप्रत्यनीका अपि निभेरभक्तिरतयः अन्यपक्षीया अपि कक्षीकृतसद्भूतोद्भूतगुणततयश्चाऽऽसन् । इत्याद्यनेकेऽवदाताः षड्दर्शनप्रतीता एव ।
तथा श्रीपत्तननगरे चतुर्मासककरणादनु विक्रमतः षट्चत्वारिंशदधिकषोडशशत १६४६ वर्षे स्तम्भतोर्थे सा० तेजपालकारिता सहस्रशो रुप्यकव्ययादिनाऽतीवश्रेष्ठां प्रतिष्ठां विधाय श्रीजिनशासनोन्नतिं तन्वाना श्रीसूरिराजो विजयन्ते ॥ १९ ॥
सिरिविजयसेणसूरि-प्पमुहेहि अणेगसाहुवग्गेहि । परिकलिआ पुहविअले, विहरन्ता दितु मे भई ॥ २० ॥
५९-तत्पट्टे श्रीविजयसेनसरिः । व्याख्या-सिरित्ति, ते च श्रीहीरविजयसूरयः संप्रति ५९ विजयसेनसूरिप्रभृत्यनेकसाधुभिः परिकलिताः पृथ्वीतले विहारं कुर्वाणा मे मम भद्रं प्रयच्छन्तु ॥ २० ॥
इति महोपाध्यायश्रीधर्मसागरगणिविरचिता
श्रीतपागच्छपट्टावलीसूत्रवृत्तिः समाप्ता ॥ छ । तथा चेवं श्रीहीरविजयसूरीणां निर्देशात् उपाध्याय श्रीनिमलहर्षगाणि-उपाध्याय श्री
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/dd6c6857f6215703eb180b786e03e45ac67652ba31434114ec3164d07c7929fa.jpg)
Page Navigation
1 ... 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354