Book Title: Tapagaccha Pattavali
Author(s): Kalyanvijay Gani
Publisher: Vijaynitisurishwarji Jain Library

View full book text
Previous | Next

Page 324
________________ : २७१ : तथा जेसलमेर्वादिमरुभूमौ जलदौर्लभ्यादुष्करोऽयमिति धिया श्रीसोमप्रभसूरिभिर्यो विहारः प्रतिषिद्ध आसीत् सोऽपि व्यवहारः कुमतव्याप्तिभिया तत्रयजनानुकंपया च भूयो लाभहेतवे पुनरप्यनुज्ञातः । तत्रापि प्रथमं लघुवया अपि शीलेन श्रीस्थूलभद्रकल्पो वैराग्यनिधिनि:स्पृहावधिर्यावजीवं जघन्यतोऽपि षष्ठतपोऽभिग्रही पारणकेऽप्याऽऽचाम्लादितपोविधायी महोपाध्यायश्रीविद्यासागरगणिविहृतवान् । तेन च जेसलमेर्वादौ खरतरान्, मेवातदेशे च बीजामतीप्रभृतीन्, मौरव्यादौ ( मौख्यादौ ) लुङ्कादीन् प्रतिबोध्य सम्यक्त्वबीजमुप्तं सदनेकधा वृद्विमुपागतमद्याऽपि प्रतीतं ॥ तथा पार्श्वचन्द्रव्युद्ग्राहिते वीरमग्रामे पाश्वचन्द्रमेव वादे निरुत्तरीकृत्य भूयान् जनो जैनधर्म प्रापितः । एवं मालवकेऽप्युजयिनीप्रभृतिषु । किं बहुना ? संविग्नत्वादिगुणैर्यत्कीर्तिपताका पुनरद्यापि सज्जनवचोवातेनेतस्तत उधूयमाना प्रवचनप्रासादशिखरे समुल्लसति । क्रियोद्धारकरणानन्तरं च श्रीआणंदविमलसूरयश्चतुर्दश १४ वर्षाणि जघन्यतोऽपि नियततपोविशेषं विहाय षष्ठतपोऽभिग्रहिणः चतुर्थषष्ठाभ्यां विंशतिस्थानकराधनाद्यनेकविकृष्टतपःकारिणश्च वि० षण्णवत्यधिकपंचदशशत १५९६ वर्षे चैत्रसितसप्तम्यामाजन्मातिचारोद्यालोच्याऽनशनं विधाय च नवभिरुपवासैरहम्मदावादनगरे स्वर्ग विभूषयामासुः ॥ १८ ॥ सिरिविजयदाणसूरी, पट्टे सगवण्णए ५७ अ अडवण्णे । सिरिहीरविजयसूरी ५८, संपइ तवगणदिणिदसमा ॥ १९ ॥ ५७-तत्पट्टे श्रीविजयदानसूरिः । ५८-तत्पट्टे श्रीहीरविजयसूरिः । व्याख्या-५७ सिरिविजयत्ति, श्रीआनन्दविमलमूरिपट्टे सप्तपंचाशत्तमः श्रीविजयदानसूरिः। येन भगवता स्तंभतीर्थाऽ-हम्मदावाद-पत्तन-महोशानक-गन्धारबंदिरादिषु महामहोत्सवपुरस्सरमनेकजिनबिंबशतानि प्रतिष्ठितानि ॥ यदुपदेशमवाप्य सूरत्राणमहिमूदमान्येन मंत्रिगलराजाऽपरनामकमलिकश्रीनगदलेनाऽश्रुतपूर्वी पाण्मासी शत्रुजयमुक्ति कारयित्वा सर्वत्र कुंकुमपत्रिकाप्रेषणपुरस्सरसम्मीलिताऽनेकदेश-नगरग्रामदिसंघसमेतेन श्रीशत्रुजययात्रा, मुक्ताफलादिना श्रीशत्रुजयवर्धापनं श्रीभरतचक्रिवच्चक्रे । तथा यदुपदेशपरायणैर्गाधारीय सा० रामजी, अहम्मदावादसत्क सं० कुंअरजीप्रभृतिभिः शत्रुनये चतुर्मुखाऽष्टापदादिप्रासादा देवकुलिकाश्च कारिताः । उज्जयन्तगिरौ जीर्णप्रासादोद्धारश्च ॥ तथा सूर्यस्येव यस्योदये तारका इवोत्कटवादिनोऽदृश्यतां प्रापुः । यो भगवान् सिद्धांतपारगामी अखण्डितप्रतापाज्ञोऽप्रमत्तया रूपश्रिया च श्रीगौतमप्रतिमो Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354