Book Title: Tapagaccha Pattavali
Author(s): Kalyanvijay Gani
Publisher: Vijaynitisurishwarji Jain Library
View full book text
________________
श्रीमुनिसुन्दरसूरेवि० षटत्रिंशदधिके चतुर्दशशत १४३६ वर्षे जन्म, त्रिचत्वारिंशदधिके १४४३ व्रतं, षट्षष्ठ्यधिके १४६६ वाचकपदं, अष्टसप्तत्यधिके १४७८ द्वात्रिंशत्सहस्र ३२००० टंकव्ययेन वृद्धनागरीयसं० देवराजेन सूरिपदं कारितं, त्र्युत्तरपंचदशशत १५.३ वर्षे का० शु० प्रतिपत् १ दिने स्वर्गभाक् ॥
५२ बावण्णोत्ति, श्रीमुनिसुन्दरसूरिपट्टे द्विपंचाशत्तमः श्रीरत्नशेखरमरिः। तस्य वि० सप्तपंचाशदधिके चतुर्दशशत १४६७ वर्षे क्वचिद्वा द्विपंचाशदधिके १४५२ जन्म, त्रिषष्ठयधिके १४६३ व्रतं, त्र्यशीत्यधिके १४ ८३ पण्डितपदं, त्रिनवत्यधिके १४९३ वाचकपदं, द्वयुत्तरे पंचदशशते १५०२ वर्षे सूरिपदं, सप्तदशाधिके १५१७ पोषवदिषष्ठीदिने ६ स्वर्गः । स्तंभतीर्थे बांबीनाम्ना भट्टेन " बालसरस्वती" ति नाम दत्तं ॥
तत्कृता ग्रंथाः-१ श्राद्धप्रतिक्रमणवृत्ति, २ श्राद्धविधिसूत्रवृत्तिः,३ आचारप्रदीपश्चेति ।
तदानीं च लुंकाख्याल्लेखकात् वि० अष्टाधिकपंचदशशत १५०८ वर्षे जिनप्रतिमोत्थानपरं लुंकामतं प्रवृत्तं ॥ तन्मते वेषधरास्तु वि० त्रयस्त्रिंशदधिकपंचदशशत १५३३ वर्षे जाताः। तत्र प्रथमो वेषधारी भाणाख्योऽभूदिति ॥ १६॥
तेवण्णो पुण लच्छी-सायर सूरीसरो मुणेअन्वो ५३ ।
चउवण्णु सुमइ साहू ५४, पणवण्णो हेमविमलगुरू ५५ ॥ १७॥ ५३-तत्पट्टे श्रीलक्ष्मीसागरसूरिः । ५४- तत्पट्टे श्रीसुमतिसाधुसरिः । ५५-तत्पट्टे श्रीहेमविमलसरिः।
व्याख्या–५३ तेवण्णोत्ति, श्रीरत्नशेखरसूरिपट्टे त्रिपंचाशत्तमः श्रीलक्ष्मीसागरसूरिः ।
तस्य वि० चतुःषष्ठयधिके चतुर्दशशत १४६४ वर्षे भाद्र० वदि द्वितीयादिने जन्म, सप्तत्यधिके १४७७ दीक्षा, षण्णवत्यधिके १४९६ पंन्यासपदं, एकाधिके पंचदशशत १५०१ वर्षे वाचकपदं, अष्टाधिके १९०८ मूरिपदं, सप्तदशाधिके १५१७ गच्छनायकपदं ॥
५४ चउवण्णुत्ति, श्रीलक्ष्मीसागरसूरिपट्टे चतुष्पंचाशत्तमः श्रीसुमतिसाधुसरिः । ५५ पणवण्णोत्ति, श्रीसुमतिसाधुसूरिपट्टे पंचपंचाशत्तमः श्रीहेमविमलसरिः ।
यः क्रियाशिथिलसाधुसमुदाये वर्तमानोऽपि साध्वाचाराननतिक्रान्तः । यतो ब्रह्मचर्येण निष्परिग्रहतया च सर्वजनविख्यातो महायशस्वी संविज्ञसाधुसान्निध्यकारी । यद्दीक्षिता यन्निभिताश्च बहवः साधवः क्रियापरायणा आसन् । तच्चिनं समुदायानुरोधेन क्षमाश्रमणादिविहृतं पक्वान्नादिकं नात्मना भुक्तवान् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/0fc4f883eebd2ec0b9e2f0ff92a8c2e8542111671264053db58248dc656a64f3.jpg)
Page Navigation
1 ... 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354