Book Title: Tapagaccha Pattavali
Author(s): Kalyanvijay Gani
Publisher: Vijaynitisurishwarji Jain Library
View full book text
________________
: २१७ : महेश्वरनामे, विंशत्यधिके १४२० अणहिलपत्तने सूरिपदं । यं पत्तने गुंगडीसरःकृतस्थितिः प्रधानतरयोगिशतत्रयपरिवृत्तो मंत्रतंत्रादिसमृद्धिमंदिरं स्थावरजंगमविषापहारी जलानलव्यालहरिभयभेत्ता अतीतानागतादिवस्तुवेत्ता राजमंत्रिप्रमुखबहुजनबहुमानपूजितः उदयीपा योगी प्रनासमक्षं स्तुतिं कुर्वाणः प्रकटितपरमभक्तिडंबर: साडंबरं वंदितवान् । तद्नु च संघाधिपनरिआयुर्वंदनकारणं पृष्ठः स योगी उवाच-" पद्माऽक्षदंडपरिकरचिट्ठरुपलक्ष्ययुगोत्तमगुरवस्त्वया वंदनीया " इति दिव्यज्ञानशक्तिमतः कणयरीपाऽभिधानस्वगुरोर्वचसा वंदित " इति ।
__ श्रीदेवसुन्दरसूरीणां च श्रीज्ञानसागरसूरयः, श्रीकुलमंडनसूरयः, श्रीगुणरत्नसूरयः, श्रीसोमसुंदरसूरयः, श्रीसाधुरत्नसूरयश्चेति पंचशिष्यास्तत्र श्रीज्ञानसागरसूरीणां वि० पंचाधिके चतुर्दशशत १४०५ वर्षे जन्म, सप्तदशाधिके १४१७ दीक्षा, एकचत्वारिंशदधिके १४ ४ १ सूरिपदं, षष्ठयधिके १४६० स्वर्ग: । स च चतुर्थः । तदुक्तं गुर्वावल्यां (श्लो० ३३८, ३३९)
खरतरपक्षश्राडो, मंत्रिवरो गोवल: सकलरात्रिम् । अनशनसिद्धौ भक्त्या-ऽगुरुकर्पूरादिभोगकरः ॥ १ ॥ ईषन्निद्रामाप्याऽपश्यत्स्वप्ने सुदिव्यरूपधरान् ।
तानिति वदतस्तुयें, कल्पे स्मः शक्रसमविभवाः ॥ २ ॥ युग्ममिति ॥ तत्कृता ग्रंथाच-श्रीआवश्यकौघनिर्युक्त्याद्यनेकग्रंथावचूर्णयः, श्रीमुनिसुव्रतस्तवघनौधनवखण्डपार्श्वनाथस्तवादि च ॥
श्रीकुलमण्डनसूरीणां च वि० नवाधिके चतुर्दशशते १४०९ जन्म, सप्तदशाधिके १४१७ व्रतं, द्विचत्वारिंशदधिके १४४२ सूरिपदं, पंचपंचाशदधिके १४५५ स्वर्गः ॥ सिद्धान्तालापकोद्धारः विश्वश्रीधरेत्यादिअष्टादशारचक्रबंधस्तव-गरीयो० हारबंधस्तवादयश्च तत्कृतग्रन्थाः । श्रीगुणरत्नसूरीणां चासाधारणो नियमः । तदुक्तम् ( गु० श्लो० ३८१ )
जगदुत्तरो हि तेषां, नियमोऽवष्टंभरोषविकथानां ।
आसन्नां मुक्तिरमां, वदति चरित्रादिनैर्मल्यात् ॥ १॥ इति तत्कृताश्च ग्रंथा:-क्रियारत्नसमुच्चयः, षड्दर्शनसमुच्चयबृहवृत्त्यादयः ॥ श्रीसाधुरत्नसूरिणां कृतिर्यतिजीतकल्पवृत्त्यादिकेति ॥ छ । ५० पण्णोत्ति, श्रीदेवसुंदरसूरिपट्टे पंचाशत्तमः श्रीसोमसुन्दरसूरिः।
तस्य वि० त्रिंशदधिके चतुर्दशशते १४३० वर्षे मा० व० चतुर्दश्याम् शुक्रे जन्म, सप्तत्रिंशदधिके १४३७ व्रतं, पञ्चाशदधिके १४५० वाचकपदं, सप्तपञ्चाशदधिके १४५७ सूरिपदं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/f0799d78cecb4ed36dca115f962a9c2ec64e4fa48ed756a79314f9c220802dc4.jpg)
Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354