Book Title: Tapagaccha Pattavali
Author(s): Kalyanvijay Gani
Publisher: Vijaynitisurishwarji Jain Library

View full book text
Previous | Next

Page 318
________________ : २६५ : तत्र जय वृषभेत्यादिस्तुतिकरणव्यतिकरस्त्वेवं-एकेन मंत्रिणाऽष्टयमकं काव्यमुक्त्वा प्रोचे-' इदग्काव्यमधुना केनाऽपि कर्तुं न शक्यं । ' गुरुभिरूचे-नास्तिर्नास्ति । तेनोक्तं तं कविं दर्शयत । तैरुक्तं ज्ञास्यते । ततो जय वृषभस्तुतयो अष्टयमका एकया निशा निष्पाध भित्तिलिखिता दर्शिताः । स च चमत्कृतः प्रतिबोधितश्च । ते च वि० सप्तपंचाशदधिकत्रयोदशशत १३६७ वर्षे दिवं गताः । ४७ सोमप्पहत्ति, श्रीधर्मघोषसूरिपट्टे सप्तचत्वारिंशत्तमः श्रीसोमप्रभसूरिः । 'नमिऊण भणइ ' एवमित्याचाराधनासूत्रकृत् । तस्य च वि० दशाधिकत्रयोदशशत १३१० वर्षे जन्म, एकविंशत्यधिके १३२१ व्रतं, द्वात्रिंशदधिके १३३२ सूरिपदं, कण्ठगतैकादशांगसूत्रार्थो गुरुभिर्दीयमानायां मंत्रपुस्तिकायां यच्छ्रतचारित्रं मंत्रपुस्तिकां वेत्युक्त्वा न मंत्रपुस्तिकां गृहीतवान् । अपरस्य योग्यस्याऽभावात् सा जलसात्कृता । _येन श्रीसोमप्रभसूरिणा जलकुंकुणदेशेऽप्कायविराधनाभयात् मरौ शुद्धजलदौर्लभ्यात् साधूनां विहारः प्रतिषिद्धः ॥ तथा भीमपश्यां कार्तिके द्वये प्रथम एव कार्तिके एकादशोऽन्यपक्षीयाऽऽचार्याऽविज्ञातं भाविनं भंगं विज्ञाय चतुर्मासी प्रतिक्रम्य विहृतवन्तः, पश्चात्तद्भगोऽभवत् । ते चाऽऽचार्या अकृतगुरुवचना भंगमध्येऽपतन्निति । तत्कृता ग्रंथास्तु-सविस्तरयतिजीतकल्पसूत्रं, यत्राखिलेत्यादिस्तुतयः, जिनेन येनेतिस्तुतयः, श्रीमद्धर्मेत्यादयश्च ॥ तच्छिष्याः-१ श्रीविमलप्रभसूरि २ श्रीपरमानंदसूरि ३ श्रीपद्मतिलकसूरि ४ श्रीसोमतिलकसूरय इति । यस्मिन् वर्षे श्रीधर्मघोषसूरयो दिवं गताः तस्मिन्नेव वर्षे १३५७ सोमप्रभसूरिभिः श्रीविमलप्रभसूरीणां पदं ददे । ते च स्तोकं जीविता । ततः स्वायुर्ज्ञात्वा त्रिसप्तत्यधिकत्रयोदशशत १३७३ वर्षे श्रीपरमानंदसूरि-श्रीसोंमतिलकसूरीणां सूरिपदं दत्त्वा, मासत्रयेण वि० त्रिसप्तत्यधिकत्रयोदशशत १३७३ वर्षे श्रीसोमप्रभसूरयो दिवं गताः । तदानीं घ स्तंभतीर्थे तेषामाऽऽलिगवसतिस्थत्वेन तत्रत्याः प्रत्यासन्ना लोका आकाशोद्योताद्यालोक्योक्तवंतो यदेतेषां गुरूणां स्वर्गाद विमानमागादिति । अन्यत्र च क्वापि पुरे तदिने यात्रावतीर्णदेवतयेत्युक्तं " यत्तपाचार्याः सौधर्मेन्द्रसामानिकत्वेन समुत्पन्ना" इति प्रवादोऽधुना मया मेरौ देवमुखात् श्रुत इति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354