Book Title: Tapagaccha Pattavali
Author(s): Kalyanvijay Gani
Publisher: Vijaynitisurishwarji Jain Library

View full book text
Previous | Next

Page 316
________________ .: २३ : विहारे वि० त्रयोविंशत्यधिक त्रयोदशशते १३२३ वर्षे, क्वचिच्चतुरधिके १३०४ श्रीविद्यानंदसूरिनाम्ना वीरधवलस्य सूरिपददानं । तदनुजस्य च भीमसिंहस्य धर्मकीर्तिनाम्नोपाध्यायपदमपि तदानीमेव संभाव्यते । सरिपददानावसरे सौवर्णकपिशीर्षके प्रल्हादनविहारे मंडपात् कुंकुमवृष्टिः । सर्वोऽपि जनो महाविस्मयं प्राप्तः, श्राद्धैश्च महानुत्सवश्चक्रे । तैश्च श्रीविद्यानंदसूरिभिर्विद्यानंदाभिधं व्याकरणं कृतं । यदुक्तम् विद्यानंदाभिधं येन, कृतं व्याकरण नवम् । भाति सर्वोत्तमं स्वल्प-सूत्रं बह्वर्थसंग्रहं ॥ १ ॥ पश्चात् श्रीविद्यानंदसूरीन् धरित्र्यामाऽऽज्ञाप्य, पुनरपि श्रीगुरवो मालवके विहृतवंतः । तत्कृताश्च ग्रंथास्त्वेते २-श्राद्धदिनकृत्यसूत्र-वृत्ती, २- नव्यकर्मग्रंथपंचक सूत्र-वृत्ती, २-सिद्धपंचाशिकासूत्रवृत्ती, १-धर्मरत्नवृत्तिः, २-(१) सुदर्शनचरित्रं, ३ त्रीणि भाष्यानि, “ सिरिउसहवद्वमाण " प्रभृतिस्तवादयश्च । केचित्तु श्रावकदिनकृत्यसूत्रमित्याहुः ॥ विक्रमात् सप्तविंशयधिकत्रयोदशशत१३२७ वर्षे मालवक एव देवेन्द्रसूरयः स्वर्ग जग्मुः ॥ दैवयोगात विद्यापुरे श्रीविद्यानंदसूरयोऽपि त्रयोदशदिनांतरिताः स्वर्गभाजः । अतः षड्भिसिः सगोत्रसूरिणा श्रीविद्यानंदसूरिबांधवानां श्रीधर्मकी[पाध्यायानां श्रीधर्मघोषसरिरितिनाम्ना सूरिपदं दत्तं ॥ श्रीगुरुभ्यो विजयचंद्रसूरिपृथग्भव ने कं गुरुं सेवेऽहमिति संशयानस्य सौवर्णिकसंग्रामपूर्वजस्य निशि स्वप्ने देवतया श्रीदेवेन्द्रसूरीणामन्ययो भव्यो भविष्यतीति तमेव सेवस्वेति ज्ञापितं ॥ श्रीगुरूणां स्वर्गगमनं श्रुत्वा संघाधिपतिना भीमेन द्वादशवर्षाणि धान्यं त्यक्तं ॥ छ । ४६ छायालीसोत्ति, श्रीदेवेन्द्रसूरिपट्टे षट्चत्वारिंशत्तमः श्रीधर्मघोषसूरिः। येन मंडपाचले सा० पृथ्वीधरः पंचमव्रते लक्षप्रमाणं परिग्रहं नियमयन् ज्ञानातिशयात्तभंगमवगम्य प्रतिषेधितः । स च मंडपाचलाधिपस्य सर्वलोकाभिमतं प्राधान्यं प्रातः, ततो धनेन धनदोपमः जातः । पश्चात्तेन चतुरशीति(८४)र्जिनप्रासादाः सप्त च ज्ञानकोशाः कारिताः । श्रीशत्रुजये च एक. विंशतिघटीप्रमाणसुवर्णव्ययेन रैमयः श्रीऋषभदेवप्रासादः कारितः । केचिञ्च तत्र षट्पंचाशत्सुवर्णघटीव्ययेनेंद्रमालायां ( ला यो ) परिहितवानिति वदन्ति । तथा धरित्र्यां केनचित्साधर्मिकेण ब्रह्मचारिवेषदानावसरे महर्षिकत्वात् पृथ्वीधरस्यापि तद्वेषः प्राभृतीलतः, स च तमेव वेषमादाय ततःप्रभृति द्वात्रिंशद्वर्षीयोऽपि ३२ ब्रह्मचार्यभूत् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354