Book Title: Tapagaccha Pattavali
Author(s): Kalyanvijay Gani
Publisher: Vijaynitisurishwarji Jain Library

View full book text
Previous | Next

Page 321
________________ यमष्टादशशत १८०० साधुपरिकरितं सत्क्रियापरायण महामहिमालयं गुरुं दृष्ट्वा रुष्टैद्रव्यलिंगिभिरेकः पंचशतद्रविणदानेन सशस्त्रः पुमांस्तद्वधायोदीरितः। स च दुधिया वसतौ प्रविष्टो यावदनुचितकरणाय यतते तावच्चन्द्रोद्योते जाते सति निद्रालुभिरपि श्रीगुरुभी रजोहरणेन प्रमृज्य पार्श्व परावर्तितं, तद दृष्ट्वाऽहो निद्रायामपि क्षुद्रप्राणिकपापरमेनमपराध्य " कस्यां गतौ मे गति " रिति विचारणया परलोकभीतो गुरुपादयोर्निपत्य " क्षमध्वं मेऽपराध " मिति वचसा गुरुं प्रबोध्य निजव्यतिकरं कथितवान् । सोऽपि गुरुभिर्मधुरवाचा तथोदीरितो यथा प्रव्रजित इति वृद्धवचः ॥ तथा यस्य ज्ञानवैराग्यनिधेर्गुणगणप्रतीतिः परपक्षेऽपि प्रतीता । तदुक्तं गुरुगुणरत्नाकरे (सर्ग २, श्लोक ६२ ) आकर्ण्य यदगुणगणं गृहिणः प्रहृष्टा, लेखेन दुष्कृतततीरतिदूरदेशात् ।। विज्ञप्य केऽपि कृतिनः परपक्षभाजोऽ-प्याऽऽलोचनां जगृहुरास्यकजेन येषां ॥ १ ॥ इति तत्कृतिश्च--योगशास्त्रोपदेशमालापडावश्यकनवतत्त्वादिबालावबोधभाष्यावचूर्णि--कल्याणकस्तोत्रादिनीति । तच्छिष्यास्तु-१ श्रीमुनिसुन्दरमरिस, २ कृष्णसरस्वतीबिरुदधारक-श्रीजयसुन्दरसूरिः, ३ महाविद्याविडंबनटिप्पनकारक-श्रीभुवनसुन्दरसूरिः, ४ कण्ठगतैकादशांगीसूत्रधारकदीपावलिकाकल्पादिकारक-श्रीजिनसुन्दरश्चेति चत्वारः । तैः परिकरितो राणपुरे श्रीधरणचतुर्मुखविहारे ऋषभाद्यनेकशतबिंबप्रतिष्ठाकृत् ॥ अनेकभव्यप्रतिबोधादिना प्रवचनमुद्भाव्य वि० नवनवत्यधिकचतुर्दशशत १४९९ वर्षे स्वर्गभाकू ।। ५१ मुनिसुन्दरेगवण्णोत्ति, श्रीसोमसुन्दरसूरिपट्टे एकपंचाशत्तमः श्रीमुनिसुन्दरसूरिः । येनानेकप्रासादपद्मचक्रषट्कारकक्रियागुप्तकाऽर्धभ्रमसर्वतोभद्रमुरजसिंहासनाऽशोकभेरीसमवसरणसरो-- वराऽष्टमहाप्रातिहार्यादिनव्यत्रिशतीबंधतर्कप्रयोगाद्यनेकचित्राक्षरद्वयक्षरपंचवर्गपरिहाराद्यनेकस्तवमय-- "त्रिदशतरंगिणी" नामधेयाष्टोत्तरशतहस्तमितो लेखः श्रीगुरूणां प्रेषितः ॥ चातुर्वैद्यवैशारद्यनिधिरुपदेशरत्नाकरप्रमुखग्रन्थकारकः ॥ स्तभंतीर्थे दृफरखानेन “ वादिगोकुलसंड " इति भणितः, दक्षिणस्यां " कालीसरस्वती "ति प्राप्तबिरुदः, अष्टवर्षगणनायकत्वानंतरं वर्षत्रिक " युगप्रधानपदव्युदयी '' ति जनैरुक्तः, अष्टोत्तरशत १०८ वर्तुलिकानादौपलक्षकः, बाल्येऽपि सहस्राभिधानधारकः, संतिकरमिति समहिमस्तवनकरणेन योगिनीकृतमायुपद्रवनिवारकः, चतुर्विशतिवार २४ विधिना सरिमंत्राराधकः ॥ तेष्वपि चतुर्दशवारं यदुपदेशतः स्वस्वदेशेषु चंपकराजदेपाधारादिराजभिरमारिः प्रवर्तिता । सीरोहीदिशि सहस्रमल्लराजेनाऽप्यमारिप्रवर्तने कृते येन तिड्डकोपद्रवो निवारितः। Jain Education International For Private & Personal Use Only www.jainelibrary.org |

Loading...

Page Navigation
1 ... 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354