Book Title: Tapagaccha Pattavali
Author(s): Kalyanvijay Gani
Publisher: Vijaynitisurishwarji Jain Library

View full book text
Previous | Next

Page 323
________________ ऋ० हाना-२० श्रीपति-ऋ० गणपतिप्रमुखा लुकामतमपास्य श्रीहेमविमलसरिपार्श्वे प्रव्रज्य तन्निश्रया चारित्रभाजो बभूवांसः । सद्युम्नं कंचिद् व्रतिनं ज्ञात्वा गणान्निष्काशयामास । न च तेषां क्रियाशिथिलसाधुसमुदायावस्थाने चारित्रं न संभवतीति शंकनीयं, एवं सत्यपि गणाधिपतेश्चारित्रसंभवात् । यदागमः—साले नाम एगे एरण्डपरिवारेत्ति । तदानीं वि० द्वाषष्ठ्यधिकपंचदशशते १५६२ वर्षे “ संप्रति साधवो न दृग्पथमायाती-" त्यादिप्ररूपणापरकटुकनाम्नो गृहस्थात् त्रिस्तुतिकमतवासितोत्कटुकनाम्ना मतोत्पत्तिः। तथा वि० सप्तत्यधिकपंचदशशत १५७० वर्षे लुकामतान्निर्गत्य बीजाख्यवेषधरेण “बीजामती" नाम्ना मतं प्रवर्तितं ॥ तथा वि. द्विसप्तत्यधिकपंचदशशत १५७२ वर्षे नागपुरीयतपागणान्निर्गत्य उपाध्यायपार्श्वचंद्रेण स्वनाम्ना मतं प्रादुष्कृतमिति ॥ १७ ॥ सुविहिअमुणिचूडामणि, कुमयतमोमहणमिहिरसममहिमो। आणंदविमलसरी-सरो अ छावण्णट्टधरो ॥ १८ ॥ ५६-तत्पट्टे श्रीआणंदविमलसूरिः । व्याख्या-१६ सुविहिअत्ति, श्रीहेमविमलसूरिपट्टे षट्पंचाशत्तमपट्टधरः सुविहितमुनिचूडामणि-कुमततमोमथनसूर्यसममहिमा श्रीआणंदविमलमरिः । तस्य च वि० सप्तचत्वारिंशदधिके पंचदशशत १५४७ वर्षे इलादुर्गे जन्म, द्विपंचाशदधिके १९५२ व्रतं, सप्तत्यधिके १५७० सूरिपदं ॥ तथा यो भगवान् क्रियाशिथिलबहुयतिजनपरिकरितोऽपि संदेगरंगभावितात्मा जिनप्रतिमाप्रतिषेध-साधुजनाभावप्रमुखोत्सूत्रप्ररूपणप्रबलजलप्लाव्यमानं जननिकरमवलोक्य करुणारसावलिप्तचेतो गुर्वाज्ञया कतिचित् संविग्नसाधुसहायो वि० द्वयशीत्यधिकपंचदशशत १५८२ वर्षे शिथिलाचारपरिहाररूपक्रियोद्धरणयानपात्रेण तमुधृतवान्, अनेकानि चेभ्यानामिम्यपुत्राणां च शतानि कुटुंबधनादिमोहं सत्याज्य प्रव्राजितानि ॥ __ " यो वादे नयी स नगरादौ स्थास्यति नाऽन्य ” इति सुराष्ट्राधिपतिनामांकितलेखमादाय सुराष्ट्रे साधुविहारनिमित्तं यदीयश्रावकः सुरत्राणदत्तपर्यस्तिकावाहनः प्रातसाहिप्रदत्त" मलिकश्रीनगदल " बिरुदः सा० तूणसिंहाख्यः श्रीगुरूणां विज्ञप्तिं कृत्वा संप्रतिभूपतिरिव पंन्यासजगर्षिप्रमुखसाधुविहारं कारितवान् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354