________________
.: २३ : विहारे वि० त्रयोविंशत्यधिक त्रयोदशशते १३२३ वर्षे, क्वचिच्चतुरधिके १३०४ श्रीविद्यानंदसूरिनाम्ना वीरधवलस्य सूरिपददानं । तदनुजस्य च भीमसिंहस्य धर्मकीर्तिनाम्नोपाध्यायपदमपि तदानीमेव संभाव्यते । सरिपददानावसरे सौवर्णकपिशीर्षके प्रल्हादनविहारे मंडपात् कुंकुमवृष्टिः । सर्वोऽपि जनो महाविस्मयं प्राप्तः, श्राद्धैश्च महानुत्सवश्चक्रे । तैश्च श्रीविद्यानंदसूरिभिर्विद्यानंदाभिधं व्याकरणं कृतं । यदुक्तम्
विद्यानंदाभिधं येन, कृतं व्याकरण नवम् ।
भाति सर्वोत्तमं स्वल्प-सूत्रं बह्वर्थसंग्रहं ॥ १ ॥ पश्चात् श्रीविद्यानंदसूरीन् धरित्र्यामाऽऽज्ञाप्य, पुनरपि श्रीगुरवो मालवके विहृतवंतः । तत्कृताश्च ग्रंथास्त्वेते
२-श्राद्धदिनकृत्यसूत्र-वृत्ती, २- नव्यकर्मग्रंथपंचक सूत्र-वृत्ती, २-सिद्धपंचाशिकासूत्रवृत्ती, १-धर्मरत्नवृत्तिः, २-(१) सुदर्शनचरित्रं, ३ त्रीणि भाष्यानि, “ सिरिउसहवद्वमाण " प्रभृतिस्तवादयश्च । केचित्तु श्रावकदिनकृत्यसूत्रमित्याहुः ॥ विक्रमात् सप्तविंशयधिकत्रयोदशशत१३२७ वर्षे मालवक एव देवेन्द्रसूरयः स्वर्ग जग्मुः ॥
दैवयोगात विद्यापुरे श्रीविद्यानंदसूरयोऽपि त्रयोदशदिनांतरिताः स्वर्गभाजः । अतः षड्भिसिः सगोत्रसूरिणा श्रीविद्यानंदसूरिबांधवानां श्रीधर्मकी[पाध्यायानां श्रीधर्मघोषसरिरितिनाम्ना सूरिपदं दत्तं ॥
श्रीगुरुभ्यो विजयचंद्रसूरिपृथग्भव ने कं गुरुं सेवेऽहमिति संशयानस्य सौवर्णिकसंग्रामपूर्वजस्य निशि स्वप्ने देवतया श्रीदेवेन्द्रसूरीणामन्ययो भव्यो भविष्यतीति तमेव सेवस्वेति ज्ञापितं ॥
श्रीगुरूणां स्वर्गगमनं श्रुत्वा संघाधिपतिना भीमेन द्वादशवर्षाणि धान्यं त्यक्तं ॥ छ ।
४६ छायालीसोत्ति, श्रीदेवेन्द्रसूरिपट्टे षट्चत्वारिंशत्तमः श्रीधर्मघोषसूरिः। येन मंडपाचले सा० पृथ्वीधरः पंचमव्रते लक्षप्रमाणं परिग्रहं नियमयन् ज्ञानातिशयात्तभंगमवगम्य प्रतिषेधितः । स च मंडपाचलाधिपस्य सर्वलोकाभिमतं प्राधान्यं प्रातः, ततो धनेन धनदोपमः जातः । पश्चात्तेन चतुरशीति(८४)र्जिनप्रासादाः सप्त च ज्ञानकोशाः कारिताः । श्रीशत्रुजये च एक. विंशतिघटीप्रमाणसुवर्णव्ययेन रैमयः श्रीऋषभदेवप्रासादः कारितः । केचिञ्च तत्र षट्पंचाशत्सुवर्णघटीव्ययेनेंद्रमालायां ( ला यो ) परिहितवानिति वदन्ति ।
तथा धरित्र्यां केनचित्साधर्मिकेण ब्रह्मचारिवेषदानावसरे महर्षिकत्वात् पृथ्वीधरस्यापि तद्वेषः प्राभृतीलतः, स च तमेव वेषमादाय ततःप्रभृति द्वात्रिंशद्वर्षीयोऽपि ३२ ब्रह्मचार्यभूत् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org