Book Title: Tapagaccha Pattavali
Author(s): Kalyanvijay Gani
Publisher: Vijaynitisurishwarji Jain Library
View full book text
________________
महोत्सवे जायमाने वीरधवलकुमारं प्रतिबोध्य, वि० ट्युतरत्रयोदशशत १३०२ वर्षे प्रावाजयत् ।। तदनु तद्भातरमपि प्रव्राज्य चिरकालं मालवके एव विहृतवान् । ततो गूर्जरधरित्र्यां श्रीदेवेन्द्रसूरयः श्रीस्तंभतीर्थे समायाताः ॥
तत्र पूर्वे श्रीविजयचन्द्रसूरयः १-गीतार्थानां पृथक पृथक् वस्त्रपुट्टलिकादानं, २-नित्यविकृत्यनुज्ञा, ३-चीवरक्षालनानुज्ञा, ४-फलशाकग्रहणं, ५-साधु-साध्वीनां निर्विकृतिकप्रत्याख्याने निर्विकृतिकग्रहणं, ६-आर्यिकासमानीताऽशनादिभोगानुज्ञा, ७-प्रत्यहं द्विविधप्रत्याख्यानं, (-गृहस्थावर्जननिमितं प्रतिक्रमणकरणानुज्ञा, ९-संविभागदिने तद्गृहे गीतार्थेन गंतव्यं, १०-लेपसंनिध्यभावः, ११-तत्कालेनोष्णोदकग्रहणं इत्यादिना क्रियाशैथिल्यरुचीन् कतिचिन् मुनीन् स्वायत्तीकृत्य सदोषत्वात् श्रीजगच्चंद्रसूरिभिः परित्यक्तायामपि विशालायां पौषधशालायां लोकाग्रहात् द्वादशवर्षाणि स्थितवंतः । प्रव्रज्यादिककृत्यम् गुर्वाज्ञामंतरेणैव कृतवंतश्च ।
श्रीविजयचंद्रसूरिव्यतिकरस्त्वेवं
मंत्रिवस्तुपालगृहे विजयचंद्राख्यो लेख्यकर्मकृत् मंत्र्याऽऽसीत् । क्वचनाऽपराधे कारागारे प्रक्षिप्तः । श्रीदेवभद्रोपाध्यायैः प्रव्रज्याग्रहणप्रतिज्ञया विमोच्य प्रव्राजितः। स च सप्रज्ञो बहुश्रुतीभूतो मंत्रिवस्तुपालेन नाऽयं साभिमानी सूरिपदयोग्य इत्येवं वार्यमाणैरपि श्रीजगच्चंद्रसूरिभिः श्रीदेवभद्रोपाध्यायानुरोधात् श्रीदेवेन्द्रसूरीणां सहायो भविष्यतीति विचिंत्य च सूरीकृतः । बहुकालं च श्रीदेवेन्द्रसूरिषु विनयवानेवासीत् ।
मालवदेशात्समागतानां श्रीदेवेन्द्रसूरीणां तदा वंदनार्थमपि नाऽऽयातः गुरुभिर्ज्ञापितं कथमेकस्यां वसतौ द्वादशवर्षाणि स्थितिमिति श्रुत्वा “ निर्मम-निरहंकारा” इत्यादि प्रत्युत्तर प्रेषितवान् ॥ संविज्ञास्तु न तं प्रत्याश्रिताः । श्रीदेवेन्द्रसूरयस्तु पूर्वमनेकसंविज्ञसाधुपरिकरिता " उपाश्रय " एव स्थितवंतः॥ लोकैश्च वृद्धशालायां स्थितत्वात् श्रीविजयचंद्रसमुदायस्य "वृद्धशालिक" इत्युक्तं । तवशात् श्रीदेवेन्द्रसूरिनिश्रितसमुदायस्य " लघुशालिक" इति ख्यातिः।
स्तंभतीर्थे च चतुष्पथस्थितकुमारपालविहारे धर्मदेशनायामष्टादशशत १८०० मुखवस्त्रिकाभिमंत्रिवस्तुपाल: चतुर्वेदादिनिर्णयदातृत्वेन स्वसमयपरसमयविदां श्रीदेवेन्द्रसूरीणां वन्दनकदानेन बहुमानं चकार । श्रीगुरवस्तु विजयचंद्रमुपेक्ष्य विहरमाणाः क्रमेण पाल्हणपुरे समायाताः । तत्र चानेकजनतान्विताः शीकरीयुक्तसुखासनगामिनश्चतुरशीतिरिभ्या धर्मश्रोतारः। प्रल्हादनविहारे प्रत्यहं मूढकप्रमाणा अक्षताः, क्रयविक्रयादौ नियतांशग्रहणात् षोडशमणप्रमाणानि पूगीफलानि चायान्ति । प्रत्यहं पंचशतीवीशलप्रियाणां भोगः । एवं व्यतिकरे सति श्रीसंघेन विज्ञप्ता गुरवः यदत्र गणाधिपतिस्थापनेन पूर्यतामस्मन्मनोरथः । गुरुभिस्तु तथाविधमौचित्यं विचार्य प्रल्हादन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/f0fdcf2fd0f4c36ac18016b4b410856edc9841f9ddc0ff72d6fff199dec14ef4.jpg)
Page Navigation
1 ... 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354