Book Title: Tapagaccha Pattavali
Author(s): Kalyanvijay Gani
Publisher: Vijaynitisurishwarji Jain Library
View full book text
________________
: २१०: सत्पञ्जिकादिपद्या-विरचना या भगवता कृता येन । मंदधियामपि सुगमास्ते सर्वे विश्वहितबुध्या ॥ ४ ॥ अष्टहयेश ( ११७८ ) मिताब्दे विक्रमकालादिवं गतो भगवान् ।
श्रीमुनिचंद्रमुनींद्रो, ददातु भद्राणि संघाय ॥ ५ ॥ अनेन चानंदसूरिप्रभृतयोऽनेके निजबांधवाः प्रव्राज्य सूरीकृताः ।
अयं च श्रीमुनिचंद्रसूरिः श्रीनेमिचंद्रसूरिगुरुभ्रातृश्रीविनयचंद्रोपाध्यायस्य शिष्यः श्रीनेमिचंद्रसूरिभिरेव गणनायकतया स्थापितः । यदुक्तंगुरुबंधुविनयचंद्राध्यापकशिष्यं स नेमिचंद्रगुरुः । यं गणनाथमकार्षीत्, स जयति मुनिचंद्रसूरिरिति ॥१॥
अत्र च एकोनषष्ट्यधिकैकादशशत ११५५ वर्षे पौर्णिमीयकमतोत्पत्तिः, तत्प्रतिबोधाय च मुनिचंद्रसूरिभिः पाक्षिकसप्ततिका कृतेति ।
तथा श्रीमुनिचंद्रसूरिशिष्याः श्रीअजितदेवसरि-वादिश्रीदेवसरिप्रभृतयः । तत्र वादिश्रीदेवसूरिभिः श्रीमदणहिल्लपुरपत्तने जयसिहदेवराजस्याऽनेकविद्वज्जनकलितायां सभायां चतुरशीतिवादलब्धजययशसं दिगंबरचक्रव तिनं वादलिप्सुं कुमुदचंद्राचार्य वादे निर्जित्य श्रीपत्तने दिगंबरप्रवेशो निवारितोऽद्यापि प्रतीतः। तथा वि० चतुरधिकद्वादशशत १२०४ वर्षे फलवर्धिग्रामे चैत्यबिंबयोः प्रतिष्ठा कृता । तत्तीर्थं तु संप्रत्यपि प्रसिद्ध । तथा आरासणे च मेमिनाथप्रतिष्ठा कृता । चतुरशीतिसहस्र ८४००० प्रमाणः स्याद्वादरत्नाकरनामा प्रमाणग्रंथः कृतः । येभ्यश्च यन्नाम्नैव ख्यातिमत् चतुर्विंशतिसूरिशाखं बभूव । एषां च वि० चतुस्त्रिंशदधिके एकादशशत ११३४ वर्षे जन्म, द्विपंचाशदधिके ११५२ दीक्षा, चतुःसप्तत्यधिके ११७४ सूरिपदं, षड़विंशत्यधिकद्वादशशत १२२६ वर्षे श्रावणवदिसप्तम्यां ७ गुरौ स्वर्गः ।
तत्समये श्रीदेवचंद्रसूरिशिष्यस्त्रिकोटिग्रंथकर्ता कलिकालसर्वज्ञख्यातिमान् श्रीहेमचंद्रसूरिः, तस्य वि. पंचचत्वारिंशदधिके एकादशशत ११४५ वर्षे कार्तिकशुदिपूर्णिमायां १५ जन्म, पंचाशदधिके ११५० व्रतं, षट्षष्ट्यधिके ११६६ सूरिपदं, एकोनत्रिंशदधिकद्वादशशत १२२९ वर्षे स्वर्गः ॥
४१ एगुआलीसोत्ति, श्रीमुनिचंद्रसूरिपट्टे एकचत्वारिंशत्तमः श्रीअजितदेवसरिः । तत्समये वि० चतुरधिकद्वादशशत १२० ४ वर्षे खरतरोत्पत्तिः । तथा वि० त्रयोदशाधिके द्वादशशत १२१३ वर्षे आंचलिकमतोत्पत्तिः । वि० षटत्रिंशदधिके १२३६ वर्षे सार्धपौर्णिमीयकोत्पत्तिः । वि०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/b63f75c4fb919a30f9b8e15d54e386cc8e9b805b93e9a8ac8f4a88579c1d096e.jpg)
Page Navigation
1 ... 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354