Book Title: Tapagaccha Pattavali
Author(s): Kalyanvijay Gani
Publisher: Vijaynitisurishwarji Jain Library
View full book text
________________
૨૫૮
܀
भाद्रशुक्ल तृतीयायां बप्पभट्टेर्जन्म, येनामराजा प्रतिबोधितः । स च श्रीवी० पंचषष्ट्यधिक त्रयोदशशतवर्षे १३६९, वि० पंचनवत्यधिकाष्टशतवर्षे ८९९ भाद्रशुक्लपष्ठयां स्वर्गभाक् ॥ १० ॥ बत्तीसो पजुष्णो ३२, तेतीसो माणदेव जुगपवरो ३३ । चउतीस विमलचंदो ३४, पणती सूज्जोअणो सूरी ३५ ॥। ११ ॥
३२- तत्पट्टे श्रीप्रद्युम्नसूरिः । ३३ - तत्पट्टे श्रीमान देवसूरिः । ३४ - तत्पट्टे श्रीविमलचन्द्रसूरिः । ३५ - तत्पट्टे श्रीउद्योतनसूरिः ।
व्याख्या—३२ बत्तीसोत्ति, श्रीयशोदेवसूरिपट्टे द्वात्रिंशत्तमः श्री प्रद्युम्न सूरिः ।
३३ तेत्तीसोत्ति, श्रीप्रद्युम्नसूरिपट्टे त्रयस्त्रिंशत्तमः श्रीमान देवसूरिः, उपधानवाच्य ग्रंथविधाता । ३४ चउतीसत्ति, श्रीमानदेवसूरिपट्टे चतुस्त्रिंशत्तमः श्रीविमलचन्द्रसूरिः ।
३१ पणतीसोत्ति, श्रीविमलचंद्रसूरिपट्टे पंचत्रिंशत्तमः श्रीउद्योतनसूरिः । स चाऽर्बुदाचलयात्रार्थं पूर्वावनीतः समागतः । टेलिग्रामस्य सीम्नि पृथोर्वटस्य छायायामुपविष्टो निजपट्टोदयहेतुं भव्य मुहूर्त्तमवगम्य श्रीवीरात् चतुष्षष्ट्यधिकचतुर्दशशतवर्षे १४६४ वि० चतुर्नवत्यधिकनवशतवर्षे ९९४ निजपट्टे श्रीसर्वदेवसूरिप्रभृतीनष्टौ सूरीन् स्थापितवान् । केचित्तु सर्वदेवसूरिमेकमेवेति वदंति । वटस्याऽधः सूरिपदकरणात् वटगच्छ इति पंचमनाम लोकप्रसिद्धं । प्रधानशिष्यसंतत्या ज्ञानादिगुणैः प्रधानचरित्रैश्च बृहत्वादवृहद्गच्छ इत्यपि ॥ ११ ॥
Jain Education International
सिरिसव्वदेवसूरी छत्तीसो ३६, देवसूरि सगतीसो ३७ । अडतीस मो सूरि पुणोवि, सिरिसव्वदेवगुरु ३८ ॥ १२ ॥
३६–तत्पठ्ठे श्रीसर्वदेवसूरिः । ३७-तत्पट्टे श्रीदेवसूरिः । ३८ - तत्पट्टे श्रीसर्वदेवसूरिः । व्याख्या - ३६ सिरिसव्वत्ति, श्रीउद्योतनसूरिपट्टे षट्त्रिंशत्तमः श्रीसर्वदेवसूरिः । केचित् श्रीप्रद्युम्न सूरिमुपधान ग्रंथप्रणेतृश्रीमानदेव सूरिं च पट्टधरतया न मन्यन्ते तदभिप्रायेण चतुस्त्रिशत्तम इति । स च गौतमवत् सुशिष्यलब्धिमान् । वि० दशाधिकदशशतवर्षे १०१० रामसैन्यपुरे श्रीचंद्रप्रभप्रतिष्ठाकृत् । चंद्रावत्यां निर्मापितोत्तुंगप्रासादं कुंकुणमंत्रिणं स्वगिरा प्रतिबोध्य प्राव्राजयत् । यदुक्तं -
चरित्रशुद्धिं विधिवज्जिनागमा- द्विधाय भव्यानभितः प्रबोधयन् । चकार जैनेश्वरशासनोन्नतिं यः, शिष्यलब्ध्याभिनवो नु गौतमः ॥ १ ॥ नृपादशाग्रे शरदां सहस्रे १०१०, यो रामसैन्याहूपुरे चकार । नाभे चैत्येष्टमतीर्थराज - बिंबप्रतिष्ठां विधिवत् सदयः
॥ २ ॥
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/57fa3d76e36b0ca0cca97a2a47c5278dc9821a24713c314a72518467862b046a.jpg)
Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354