SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ ૨૫૮ ܀ भाद्रशुक्ल तृतीयायां बप्पभट्टेर्जन्म, येनामराजा प्रतिबोधितः । स च श्रीवी० पंचषष्ट्यधिक त्रयोदशशतवर्षे १३६९, वि० पंचनवत्यधिकाष्टशतवर्षे ८९९ भाद्रशुक्लपष्ठयां स्वर्गभाक् ॥ १० ॥ बत्तीसो पजुष्णो ३२, तेतीसो माणदेव जुगपवरो ३३ । चउतीस विमलचंदो ३४, पणती सूज्जोअणो सूरी ३५ ॥। ११ ॥ ३२- तत्पट्टे श्रीप्रद्युम्नसूरिः । ३३ - तत्पट्टे श्रीमान देवसूरिः । ३४ - तत्पट्टे श्रीविमलचन्द्रसूरिः । ३५ - तत्पट्टे श्रीउद्योतनसूरिः । व्याख्या—३२ बत्तीसोत्ति, श्रीयशोदेवसूरिपट्टे द्वात्रिंशत्तमः श्री प्रद्युम्न सूरिः । ३३ तेत्तीसोत्ति, श्रीप्रद्युम्नसूरिपट्टे त्रयस्त्रिंशत्तमः श्रीमान देवसूरिः, उपधानवाच्य ग्रंथविधाता । ३४ चउतीसत्ति, श्रीमानदेवसूरिपट्टे चतुस्त्रिंशत्तमः श्रीविमलचन्द्रसूरिः । ३१ पणतीसोत्ति, श्रीविमलचंद्रसूरिपट्टे पंचत्रिंशत्तमः श्रीउद्योतनसूरिः । स चाऽर्बुदाचलयात्रार्थं पूर्वावनीतः समागतः । टेलिग्रामस्य सीम्नि पृथोर्वटस्य छायायामुपविष्टो निजपट्टोदयहेतुं भव्य मुहूर्त्तमवगम्य श्रीवीरात् चतुष्षष्ट्यधिकचतुर्दशशतवर्षे १४६४ वि० चतुर्नवत्यधिकनवशतवर्षे ९९४ निजपट्टे श्रीसर्वदेवसूरिप्रभृतीनष्टौ सूरीन् स्थापितवान् । केचित्तु सर्वदेवसूरिमेकमेवेति वदंति । वटस्याऽधः सूरिपदकरणात् वटगच्छ इति पंचमनाम लोकप्रसिद्धं । प्रधानशिष्यसंतत्या ज्ञानादिगुणैः प्रधानचरित्रैश्च बृहत्वादवृहद्गच्छ इत्यपि ॥ ११ ॥ Jain Education International सिरिसव्वदेवसूरी छत्तीसो ३६, देवसूरि सगतीसो ३७ । अडतीस मो सूरि पुणोवि, सिरिसव्वदेवगुरु ३८ ॥ १२ ॥ ३६–तत्पठ्ठे श्रीसर्वदेवसूरिः । ३७-तत्पट्टे श्रीदेवसूरिः । ३८ - तत्पट्टे श्रीसर्वदेवसूरिः । व्याख्या - ३६ सिरिसव्वत्ति, श्रीउद्योतनसूरिपट्टे षट्त्रिंशत्तमः श्रीसर्वदेवसूरिः । केचित् श्रीप्रद्युम्न सूरिमुपधान ग्रंथप्रणेतृश्रीमानदेव सूरिं च पट्टधरतया न मन्यन्ते तदभिप्रायेण चतुस्त्रिशत्तम इति । स च गौतमवत् सुशिष्यलब्धिमान् । वि० दशाधिकदशशतवर्षे १०१० रामसैन्यपुरे श्रीचंद्रप्रभप्रतिष्ठाकृत् । चंद्रावत्यां निर्मापितोत्तुंगप्रासादं कुंकुणमंत्रिणं स्वगिरा प्रतिबोध्य प्राव्राजयत् । यदुक्तं - चरित्रशुद्धिं विधिवज्जिनागमा- द्विधाय भव्यानभितः प्रबोधयन् । चकार जैनेश्वरशासनोन्नतिं यः, शिष्यलब्ध्याभिनवो नु गौतमः ॥ १ ॥ नृपादशाग्रे शरदां सहस्रे १०१०, यो रामसैन्याहूपुरे चकार । नाभे चैत्येष्टमतीर्थराज - बिंबप्रतिष्ठां विधिवत् सदयः ॥ २ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.005201
Book TitleTapagaccha Pattavali
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherVijaynitisurishwarji Jain Library
Publication Year1940
Total Pages354
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy