SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ : २५८ : चंद्रावतीभूपतिनेत्रकल्प, श्रीकुंकुणं मंत्रिणमुच्चऋद्धिं । निर्मापितोत्तुंगविशालचैत्यं, योऽदीक्षयत् बुद्धगिरा प्रबोध्य ॥ ३ ॥ तथा वि० एकोनत्रिंशदधिकदशशत १०२९ वर्षे धनपालेन देशीनाममाला कृता । वि. षण्णवत्यधिकसहस्र १०९६ वर्षे श्रीउत्तराध्ययनटीकाकृत् थिरापद्रगच्छीयवादिवेतालश्रीशांतिसूरिः स्वर्गभाक् ॥ ... ३७ देवसूरित्ति, श्रीसर्वदेवसूरिपट्टे सप्तत्रिंशत्तमः श्रीदेवसरिः। रूपश्रीरिति भूपप्रदत्तबिरुदधारी॥ ३८ अडतीसइमोत्ति, श्रीदेवसूरिपट्टेऽष्टत्रिंशत्तमः पुनः श्रीसर्वदेवसरिः, यो यशोभद्रनेमिचंद्रादीनष्टौ सूरीन् कृतवान् ॥ छ ॥ १२ ॥ एगुणचालीसइमो, जसमद्दो नेमिचंदगुरुबंधू ३९ । चालीसो मुणिचंदो ४०, एगुआलीसो अजिअदेवो ४१ ॥ १३ ॥ ३९-तत्पट्टे श्रीयशोभद्रसूरि-श्रीनेमिचंद्रसूरी। ४०-तत्पढे श्रीमुनिचंद्रसूरिः । ४१-तत्पट्टे श्रीअजितदेवमूरिः। व्याख्या-३९ एगुणत्ति, श्रीसर्वदेवमूरिपट्टे एकोनचत्वारिंशत्तमौ श्रीयशोभद्र-नेमिचंद्रौ द्वौ सूरी गुरुभ्रातरौ । वि० पंचत्रिंशदधिकैकादशशत ११३५ वर्षे, केचित् एकोनचत्वारिंशदधिकैकादशशत ११३९ वर्षे नवांगवृत्तिकृत्श्रीअभयदेवसूरिः स्वर्गभाक् । तथा कूर्चपुरगच्छोय चैत्ववासीनिनेश्वरसूरिशिष्यो जिनवल्लभश्चित्रकूटे षटकल्याणकप्ररूपणया निजमतं प्ररूपितवान् । ४० चालीसोत्ति, श्रीयशोभद्रसूरि-श्रीनेमिचंद्रसूरिपट्टे चत्वारिंशत्तमः श्रीमुनिचंद्रसूरिः । स भगवान् यावज्जीवमेकसौवीरपायी, प्रत्याख्यातसर्वविकृतिकः । श्रीहरिभद्रसूरिकताऽनेकांतपताकाद्यनेकग्रंथपञ्जिकोपदेशपदवृत्त्यादिविधानेन तार्किकशिरोमणितया ख्यातिभाकू । यदुक्तम् सौवीरपायोति तदेकवारि-पानाद्विधिज्ञो बिरुदं बभार । जिनागमांभोनिधिधौतबुद्धिर्यः शुद्धचारित्रिषु लब्धरेखः ॥ १ ॥ संविज्ञमौलिविकृतीश्च सर्वा-स्तत्याज देहेऽप्यममः सदा यः । विद्वद्विनेयाभिवृतः प्रभाव-प्रभागुणौधैः किल गौतमाभः ॥ २ ॥ हरिभद्रसूरिरचिताः, श्रीमदनेककांतजयपताकाद्याः । ग्रंथनगा विबुधानामप्यधुना दुर्गमा येत्र ॥ ३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005201
Book TitleTapagaccha Pattavali
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherVijaynitisurishwarji Jain Library
Publication Year1940
Total Pages354
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy