SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ : २१०: सत्पञ्जिकादिपद्या-विरचना या भगवता कृता येन । मंदधियामपि सुगमास्ते सर्वे विश्वहितबुध्या ॥ ४ ॥ अष्टहयेश ( ११७८ ) मिताब्दे विक्रमकालादिवं गतो भगवान् । श्रीमुनिचंद्रमुनींद्रो, ददातु भद्राणि संघाय ॥ ५ ॥ अनेन चानंदसूरिप्रभृतयोऽनेके निजबांधवाः प्रव्राज्य सूरीकृताः । अयं च श्रीमुनिचंद्रसूरिः श्रीनेमिचंद्रसूरिगुरुभ्रातृश्रीविनयचंद्रोपाध्यायस्य शिष्यः श्रीनेमिचंद्रसूरिभिरेव गणनायकतया स्थापितः । यदुक्तंगुरुबंधुविनयचंद्राध्यापकशिष्यं स नेमिचंद्रगुरुः । यं गणनाथमकार्षीत्, स जयति मुनिचंद्रसूरिरिति ॥१॥ अत्र च एकोनषष्ट्यधिकैकादशशत ११५५ वर्षे पौर्णिमीयकमतोत्पत्तिः, तत्प्रतिबोधाय च मुनिचंद्रसूरिभिः पाक्षिकसप्ततिका कृतेति । तथा श्रीमुनिचंद्रसूरिशिष्याः श्रीअजितदेवसरि-वादिश्रीदेवसरिप्रभृतयः । तत्र वादिश्रीदेवसूरिभिः श्रीमदणहिल्लपुरपत्तने जयसिहदेवराजस्याऽनेकविद्वज्जनकलितायां सभायां चतुरशीतिवादलब्धजययशसं दिगंबरचक्रव तिनं वादलिप्सुं कुमुदचंद्राचार्य वादे निर्जित्य श्रीपत्तने दिगंबरप्रवेशो निवारितोऽद्यापि प्रतीतः। तथा वि० चतुरधिकद्वादशशत १२०४ वर्षे फलवर्धिग्रामे चैत्यबिंबयोः प्रतिष्ठा कृता । तत्तीर्थं तु संप्रत्यपि प्रसिद्ध । तथा आरासणे च मेमिनाथप्रतिष्ठा कृता । चतुरशीतिसहस्र ८४००० प्रमाणः स्याद्वादरत्नाकरनामा प्रमाणग्रंथः कृतः । येभ्यश्च यन्नाम्नैव ख्यातिमत् चतुर्विंशतिसूरिशाखं बभूव । एषां च वि० चतुस्त्रिंशदधिके एकादशशत ११३४ वर्षे जन्म, द्विपंचाशदधिके ११५२ दीक्षा, चतुःसप्तत्यधिके ११७४ सूरिपदं, षड़विंशत्यधिकद्वादशशत १२२६ वर्षे श्रावणवदिसप्तम्यां ७ गुरौ स्वर्गः । तत्समये श्रीदेवचंद्रसूरिशिष्यस्त्रिकोटिग्रंथकर्ता कलिकालसर्वज्ञख्यातिमान् श्रीहेमचंद्रसूरिः, तस्य वि. पंचचत्वारिंशदधिके एकादशशत ११४५ वर्षे कार्तिकशुदिपूर्णिमायां १५ जन्म, पंचाशदधिके ११५० व्रतं, षट्षष्ट्यधिके ११६६ सूरिपदं, एकोनत्रिंशदधिकद्वादशशत १२२९ वर्षे स्वर्गः ॥ ४१ एगुआलीसोत्ति, श्रीमुनिचंद्रसूरिपट्टे एकचत्वारिंशत्तमः श्रीअजितदेवसरिः । तत्समये वि० चतुरधिकद्वादशशत १२० ४ वर्षे खरतरोत्पत्तिः । तथा वि० त्रयोदशाधिके द्वादशशत १२१३ वर्षे आंचलिकमतोत्पत्तिः । वि० षटत्रिंशदधिके १२३६ वर्षे सार्धपौर्णिमीयकोत्पत्तिः । वि० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005201
Book TitleTapagaccha Pattavali
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherVijaynitisurishwarji Jain Library
Publication Year1940
Total Pages354
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy