Book Title: Tapagaccha Pattavali
Author(s): Kalyanvijay Gani
Publisher: Vijaynitisurishwarji Jain Library
View full book text
________________
: २५८ : चंद्रावतीभूपतिनेत्रकल्प, श्रीकुंकुणं मंत्रिणमुच्चऋद्धिं । निर्मापितोत्तुंगविशालचैत्यं, योऽदीक्षयत् बुद्धगिरा प्रबोध्य ॥ ३ ॥
तथा वि० एकोनत्रिंशदधिकदशशत १०२९ वर्षे धनपालेन देशीनाममाला कृता । वि. षण्णवत्यधिकसहस्र १०९६ वर्षे श्रीउत्तराध्ययनटीकाकृत् थिरापद्रगच्छीयवादिवेतालश्रीशांतिसूरिः स्वर्गभाक् ॥ ... ३७ देवसूरित्ति, श्रीसर्वदेवसूरिपट्टे सप्तत्रिंशत्तमः श्रीदेवसरिः। रूपश्रीरिति भूपप्रदत्तबिरुदधारी॥
३८ अडतीसइमोत्ति, श्रीदेवसूरिपट्टेऽष्टत्रिंशत्तमः पुनः श्रीसर्वदेवसरिः, यो यशोभद्रनेमिचंद्रादीनष्टौ सूरीन् कृतवान् ॥ छ ॥ १२ ॥
एगुणचालीसइमो, जसमद्दो नेमिचंदगुरुबंधू ३९ ।
चालीसो मुणिचंदो ४०, एगुआलीसो अजिअदेवो ४१ ॥ १३ ॥ ३९-तत्पट्टे श्रीयशोभद्रसूरि-श्रीनेमिचंद्रसूरी। ४०-तत्पढे श्रीमुनिचंद्रसूरिः । ४१-तत्पट्टे श्रीअजितदेवमूरिः।
व्याख्या-३९ एगुणत्ति, श्रीसर्वदेवमूरिपट्टे एकोनचत्वारिंशत्तमौ श्रीयशोभद्र-नेमिचंद्रौ द्वौ सूरी गुरुभ्रातरौ । वि० पंचत्रिंशदधिकैकादशशत ११३५ वर्षे, केचित् एकोनचत्वारिंशदधिकैकादशशत ११३९ वर्षे नवांगवृत्तिकृत्श्रीअभयदेवसूरिः स्वर्गभाक् । तथा कूर्चपुरगच्छोय चैत्ववासीनिनेश्वरसूरिशिष्यो जिनवल्लभश्चित्रकूटे षटकल्याणकप्ररूपणया निजमतं प्ररूपितवान् ।
४० चालीसोत्ति, श्रीयशोभद्रसूरि-श्रीनेमिचंद्रसूरिपट्टे चत्वारिंशत्तमः श्रीमुनिचंद्रसूरिः । स भगवान् यावज्जीवमेकसौवीरपायी, प्रत्याख्यातसर्वविकृतिकः । श्रीहरिभद्रसूरिकताऽनेकांतपताकाद्यनेकग्रंथपञ्जिकोपदेशपदवृत्त्यादिविधानेन तार्किकशिरोमणितया ख्यातिभाकू । यदुक्तम्
सौवीरपायोति तदेकवारि-पानाद्विधिज्ञो बिरुदं बभार । जिनागमांभोनिधिधौतबुद्धिर्यः शुद्धचारित्रिषु लब्धरेखः ॥ १ ॥ संविज्ञमौलिविकृतीश्च सर्वा-स्तत्याज देहेऽप्यममः सदा यः । विद्वद्विनेयाभिवृतः प्रभाव-प्रभागुणौधैः किल गौतमाभः ॥ २ ॥ हरिभद्रसूरिरचिताः, श्रीमदनेककांतजयपताकाद्याः । ग्रंथनगा विबुधानामप्यधुना दुर्गमा येत्र ॥ ३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/dc414633279acf9cbdc2a9172e24655bb4792ac07d40abcac4dd757350c7bb6f.jpg)
Page Navigation
1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354