Book Title: Tapagaccha Pattavali
Author(s): Kalyanvijay Gani
Publisher: Vijaynitisurishwarji Jain Library

View full book text
Previous | Next

Page 310
________________ : २५७ : खोमाणराजकुलजोऽपि समुद्रसूरि--र्गच्छं शशास किल यः प्रवणप्रमाणी। जित्वा तथा क्षपणकान् यशं वितेने, नागहृदे भुनगनाथनमस्य तीर्थे ॥ १ ॥ २७ सत्तावोसोत्ति, श्रीसमुद्रसूरिपट्टे सप्तविंशतितमः श्रीमानदेवमूरिः। विद्यासमुद्रहरिभद्रमुनींद्रमित्रं, सूरिर्बभूव पुनरेव हि मानदेवः । मांद्यात्प्रपातमपि योऽनघसूरिमंत्रं, लेभेऽबिकामुखगिर। तपसोजयते ॥ १ ॥ श्रीवीरात् वर्षसहस्र १००० गते सत्यमित्रे पूर्वव्यवच्छेदः । अत्र च श्रीनागहस्ती १, रेवतीमित्र २, ब्रह्मद्वीपो ३, नागार्जुनो ४, भूतदिन्नः ५, श्रीकालकसूरिश्चेति ६ षड्युगप्रधाना यथाक्रमं श्रीवजसेनसत्यमित्रयोरंतरालकालवर्तिनो बोध्याः । एषु च युगप्रधानशक्राभिवंदितप्रथमानुयोगसूत्रणासूत्रधारकल्पश्रीकालकाचार्य श्रीवीरात् त्रिनवत्यधिकनवशत ९९३ वर्षातिक्रमे पंचमीतश्चतुर्थ्यां पर्युषणापर्वाऽऽनीतमिति । श्रीवीरात् पंचपंचाशदधिकसहस्र १०५५ वर्षे, वि. पंचशीत्यधिकपंचशतवर्षे ५८५ याकिनीसूनुः श्रीहरिभद्रसूरिः स्वर्गभाक् । पंचदशाधिकैकादशशत १११५ वर्षे श्रीजिनभद्रगणियुगप्रधानः । अयं च जिनभद्रियध्यानशतकादेर्हरिभद्रसूरिभिर्वृत्तिकरणाद्भिन्न इति पट्टावल्या, परं तस्य चतुरुत्तरशतवर्षायुष्कत्वेन श्रीहरिभद्रसूरिकालेऽपि संभवान्नाऽशंकावकाश इति ॥ ९ ॥ अट्ठावीसो विबुहो २८, एगुणतीसे गुरु जयाणंदो २९ । तीसो रविप्पहो ३० इग-तीसो जसदेवसूरिवरो ३१ ॥ १० ॥ २८-तत्पट्टे श्रीविबुधप्रभसूरिः । २९-तत्पढे श्रीजयानंदसूरिः । ३०-तत्पढे श्रीरविप्रभसूरिः । ३१-तत्पट्टे श्रीयशोदेवसूरिः । व्याख्या-२८ अट्ठावीसोत्ति, श्रीमानदेवसूरिपट्टेऽष्टाविंशतितमः श्रीविबुधप्रभसूरिः । २९ एगुणतीसोत्ति, श्रीविबुधप्रभसूरिपट्टे एकोनत्रिंशत्तमः श्रीजयानंदसूरिः । ३० तीसो रवित्ति, श्रीजयानंदसूरिपट्टे त्रिंशत्तमः श्रीरविप्रभसूरिः। स च श्रीवीरात् सप्तत्यधिकैकादशशत ११७० वर्षे, वि० सप्तशतवर्षे ७०० नड्डलपुरे श्रीनेमिनाथप्रासादप्रतिष्ठाछत् । श्रीवी० नवत्यधिकैकादशशत ११९० वर्षे श्रीउमास्वातियुगप्रधानः । ३१ इगतीसोत्ति, भीरविप्रभसूरिपट्टे एकत्रिंशत्तमः श्रीयशोदेवमूरिः । अत्र च श्रीवीरात् द्विसप्तत्यधिकद्वादशशतवर्षे १२७२, वि० हृयुत्तराष्टशतवर्षे ८०२ अणहिल्लपुरपत्तनस्थापना वनराजेन कृता । श्रीवीर० सप्तत्यधिकद्वादशशतवर्षे १२७०, वि० अष्टशतवर्षे ८०० Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354