Book Title: Tapagaccha Pattavali
Author(s): Kalyanvijay Gani
Publisher: Vijaynitisurishwarji Jain Library

View full book text
Previous | Next

Page 308
________________ : २५५ : षोडशाधिकशत ११६ व्रते, त्रीणि ३ वर्षाणि युगप्रधानपदे सर्वायुः साष्टाविंशतिशतं १२८ परिपाल्य श्रीवीरात् विंशत्यधिकषट्शत ६२० वर्षांते स्वर्गभाक ॥ __ अत्र श्रीववस्वामिश्रीवजसेनयोरंतरालकाले श्रीमदार्यरक्षितसुरिः श्रीदुर्बलिकापुष्प( मित्र )श्चेति क्रमेण युगप्रधानद्वयं संजातं । तत्र श्रीमदार्यरक्षितसूरिः सप्तनवत्यधिकपंचशत ५९७ वर्षाते स्वर्गभागिति पट्टावल्यादौ दृश्यते, परमावश्यकवृत्त्यादौ श्रीमदार्यरक्षितसूरीणां स्वर्गगमनानंतरं चतुरशीत्यधिकपंचशत ५८४ वर्षान्ते सप्तमनिह्नवोत्पत्तिरुक्तास्ति । तनैतद बहुश्रुतगम्यमिति । नवाऽधिकषट्शत ६०९ वर्षान्ते दिगंबरोत्पत्तिः । १५-चंदसूरित्ति, श्रीवत्रसेनपट्टे पंचदशः श्रीचंद्रसूरिः तस्माचन्द्रगच्छ इति तृतीय नाम प्रादुर्भूतं । तस्माच्च क्रमेणाऽनेकगणहेतवोऽनेके सूरयो बभूवांसः । १६–सामन्तभद्दत्ति, श्रीचंद्रसूरिपट्टे षोडशः श्रीसामंतभद्रसूरिः । स च पूर्वगतश्रुतविशारदो वैराग्यनिधिनिर्ममतया देवकुलवनादिष्वऽवस्थानात् लोके वनवासीत्युक्तस्तस्माच्चतुर्थं नाम वनवासीति प्रादुर्भूतं ॥ ६ ॥ ___ सत्तरस वुडदेवो १७, सूरी पज्जोअणो अढारसमो १८ । एगुणवीसइ इमो सुरी सिरिमाणदेवगुरू १९ ॥ ७॥ १७-तत्पट्टे श्रीवृद्धदेवसरिः । १८-तत्पट्टे श्रीप्रद्योतनसुरिः । १९-तत्पट्टे श्रीमानदेवमरिः । व्याख्या-१७ सत्तरत्ति, श्रीसामंतभद्रसूरिपट्टे सप्तदशः श्रीवृद्धदेवसरिः। वृद्धो देवसूरिरिति ख्यातः । श्रीवीरात् पंचनवत्यधिक ५९५ (६९५ ) वर्षातिकमे कोरंटके नाहडमंत्रि. निर्मापितप्रासादे प्रतिष्ठाकत् । श्रीजज्जगसूरिणा च ६७० सप्तत्यधिकषट्शतवर्षे सत्यपुरे नाहडनिर्मितप्रासादे श्रीमहावीरः प्रतिष्ठितः । १८-मूरिपज्जोअणत्ति, श्रीवृद्धदेवसूरिपट्टेष्टादशः श्रीप्रद्योतनसरिः । १९-एगूणत्ति, श्रीप्रद्योतनसुरिपट्टे एकोनविंशतितमः श्रीमानदेवसूरिः । सूरिपदस्थापनाऽवसरे यत्स्कंधयोरुपरि सरस्वतीलक्ष्म्यौ साक्षाद वीक्ष्य चरित्रादस्य भ्रंशो भावीति विचारणया विषण्णचितं गुरुं विज्ञाय येन भक्तकुलभिक्षाः सर्वाश्च विकृतयस्त्यक्ताः । तत्तपसा नडुलपुरे १ पद्मा, २ जया, ३ विजया, ४ अपराजिताऽभिधानाभिः देवीभिः पर्युपासमानं दृष्ट्वा कथं नारीभिः परिकरितोऽयं सूरिरिति शंकापरायणः कश्चित् मुग्धस्ताभिरेव शिक्षित इति ॥ ७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354