________________
: २६५ : तत्र जय वृषभेत्यादिस्तुतिकरणव्यतिकरस्त्वेवं-एकेन मंत्रिणाऽष्टयमकं काव्यमुक्त्वा प्रोचे-' इदग्काव्यमधुना केनाऽपि कर्तुं न शक्यं । ' गुरुभिरूचे-नास्तिर्नास्ति । तेनोक्तं तं कविं दर्शयत । तैरुक्तं ज्ञास्यते । ततो जय वृषभस्तुतयो अष्टयमका एकया निशा निष्पाध भित्तिलिखिता दर्शिताः । स च चमत्कृतः प्रतिबोधितश्च । ते च वि० सप्तपंचाशदधिकत्रयोदशशत १३६७ वर्षे दिवं गताः ।
४७ सोमप्पहत्ति, श्रीधर्मघोषसूरिपट्टे सप्तचत्वारिंशत्तमः श्रीसोमप्रभसूरिः । 'नमिऊण भणइ ' एवमित्याचाराधनासूत्रकृत् । तस्य च वि० दशाधिकत्रयोदशशत १३१० वर्षे जन्म, एकविंशत्यधिके १३२१ व्रतं, द्वात्रिंशदधिके १३३२ सूरिपदं, कण्ठगतैकादशांगसूत्रार्थो गुरुभिर्दीयमानायां मंत्रपुस्तिकायां यच्छ्रतचारित्रं मंत्रपुस्तिकां वेत्युक्त्वा न मंत्रपुस्तिकां गृहीतवान् । अपरस्य योग्यस्याऽभावात् सा जलसात्कृता ।
_येन श्रीसोमप्रभसूरिणा जलकुंकुणदेशेऽप्कायविराधनाभयात् मरौ शुद्धजलदौर्लभ्यात् साधूनां विहारः प्रतिषिद्धः ॥
तथा भीमपश्यां कार्तिके द्वये प्रथम एव कार्तिके एकादशोऽन्यपक्षीयाऽऽचार्याऽविज्ञातं भाविनं भंगं विज्ञाय चतुर्मासी प्रतिक्रम्य विहृतवन्तः, पश्चात्तद्भगोऽभवत् । ते चाऽऽचार्या अकृतगुरुवचना भंगमध्येऽपतन्निति ।
तत्कृता ग्रंथास्तु-सविस्तरयतिजीतकल्पसूत्रं, यत्राखिलेत्यादिस्तुतयः, जिनेन येनेतिस्तुतयः, श्रीमद्धर्मेत्यादयश्च ॥
तच्छिष्याः-१ श्रीविमलप्रभसूरि २ श्रीपरमानंदसूरि ३ श्रीपद्मतिलकसूरि ४ श्रीसोमतिलकसूरय इति ।
यस्मिन् वर्षे श्रीधर्मघोषसूरयो दिवं गताः तस्मिन्नेव वर्षे १३५७ सोमप्रभसूरिभिः श्रीविमलप्रभसूरीणां पदं ददे । ते च स्तोकं जीविता । ततः स्वायुर्ज्ञात्वा त्रिसप्तत्यधिकत्रयोदशशत १३७३ वर्षे श्रीपरमानंदसूरि-श्रीसोंमतिलकसूरीणां सूरिपदं दत्त्वा, मासत्रयेण वि० त्रिसप्तत्यधिकत्रयोदशशत १३७३ वर्षे श्रीसोमप्रभसूरयो दिवं गताः । तदानीं घ स्तंभतीर्थे तेषामाऽऽलिगवसतिस्थत्वेन तत्रत्याः प्रत्यासन्ना लोका आकाशोद्योताद्यालोक्योक्तवंतो यदेतेषां गुरूणां स्वर्गाद विमानमागादिति । अन्यत्र च क्वापि पुरे तदिने यात्रावतीर्णदेवतयेत्युक्तं " यत्तपाचार्याः सौधर्मेन्द्रसामानिकत्वेन समुत्पन्ना" इति प्रवादोऽधुना मया मेरौ देवमुखात् श्रुत इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org