________________
श्रीपरमानंदसूरिरपि वर्षचतुष्टयं जीवितः ॥ छ ॥
४८-अडचत्तोति, श्रीसोमप्रभमूरिपट्टेऽष्टचत्वारिंशत्तमः श्रीसोमतिलकसरिः । तस्य वि० पंचपंचाशदधिके त्रयोदशशत १३५५ वर्षे माघे जन्म, एकोनसप्तत्यधिके १३६९ दीक्षा, त्रिसप्तत्यधिके १३७३ सूरिपदं, चतुर्विशत्यधिकचतुर्दशशते १४२४ वर्षे स्वर्गः, सर्वायुरेकोनसतति ६९ वर्षाणां ॥
तत्कृता ग्रंथाः-बृहन्नव्यक्षेत्रसमाससूत्रं, सत्तरिसयठाण, यत्राखिल० जय बृषभ० स्रस्ताशर्म० प्रमुखस्तववृत्तयः श्रीतीर्थराजः० चतुर्थास्तुतिस्तवृत्तिः, शुभभावानव० श्रीमट्वीरं स्तुवे इत्यादि कमलबन्धस्तवः शिवशिरसि० श्रीनाभिसंभव० श्रीशेवैय० इत्यादीनि बहूनि स्तवनानि च ॥
श्रीसोमतिलकसूरिभिस्तु क्रमेण १ श्रीपद्मतिलकसूरि २ श्रीचंद्रशेखरसूरि ३ श्रीजयानन्दसूरि ४ श्री देवसुन्दरसूरीणां सूरिपदं दत्तं ॥
तेषु श्रीपद्मतिलकसूरयः श्रीसोमतिलकसरिभ्यः पर्यायज्येष्ठा एक वर्ष जीविताः, परं समित्यादिषु परमयतनापरायणाः ॥
श्रीचंद्रशेखरसूरेः वि. त्रिसप्तत्यधिके त्रयोदशशत १३७३ वर्षे जन्म, पंचाशीत्यधिके १३८५ व्रतं, त्रिनवत्यधिके १३९३ सूरिपदं, त्रयोविंशत्यधिकचतुर्दशशत १४२३ वर्षे ल्वर्गः । तत्कृतानि-उषितभोजनकथा, यवराजर्षिकथा, श्रीमद्स्तंभनकहारबंधस्तवनानि। यदभिमंत्रितरजसाप्युपद्रवं कुर्वाणा गृहहरिकादुर्द्धरमृगराजश्च मेशुरिति ।
श्रीजयानंदसूरेः वि० अशीत्यधिके त्रयोदशशत १३८० वर्षे जन्म, द्विनवत्यधिके १३९२ आषाढशुक्लसप्तमी ७ शुक्रे धरायां व्रतं, साजणाख्यो वृद्धभ्राता प्रव्रज्याऽऽदेशदानाऽनभिमुखो देवतया प्रतिबोधितो दीक्षादेशमनुमेने, विंशत्यधिके चतुर्दशशत १४२० वर्षे चै० शु० दशम्यां १० अणहिल्लफ्तने सूरिपदं, एकचत्वारिंशदधिके १४४१ स्वर्गः । तत्कृतग्रंथाः-श्रीस्थूलभद्रचरितं, देवाः प्रभोऽयं० प्रभृतिस्तवनानि ॥ १५ ॥
एगुणवण्णो सिरिदेव-सुंदरो ४९ सोमसुंदरो पण्णो ५० ।
मुनिसुंदरेगवण्णो ५१, बावण्णो रयणसेहरओ ५२ ॥ १६ ॥ ४९-तत्पढे श्रीदेवसुंदरसरिः । ५०-तत्पद्वे श्रीसोमसुंदरसूरिः । ५१-तत्पट्टे श्रीमुनिसुंदरसूरिः । ५२-तत्पट्टे श्रीरत्नशेखरसूरिः ।
व्याख्या-४९ एगुणवण्णोत्ति, श्रीसोमतिलकसूरिपट्टे एकोनपंचाशत्तमः श्रीदेवसुन्दरसूरिः। तस्य वि० षण्णवत्यधिके त्रयोदशशत १३९६ वर्षे जन्म, चतुर्वर्षाधिके चतुर्दशशत १४० ४ वर्षे व्रतं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org