SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ : २१७ : महेश्वरनामे, विंशत्यधिके १४२० अणहिलपत्तने सूरिपदं । यं पत्तने गुंगडीसरःकृतस्थितिः प्रधानतरयोगिशतत्रयपरिवृत्तो मंत्रतंत्रादिसमृद्धिमंदिरं स्थावरजंगमविषापहारी जलानलव्यालहरिभयभेत्ता अतीतानागतादिवस्तुवेत्ता राजमंत्रिप्रमुखबहुजनबहुमानपूजितः उदयीपा योगी प्रनासमक्षं स्तुतिं कुर्वाणः प्रकटितपरमभक्तिडंबर: साडंबरं वंदितवान् । तद्नु च संघाधिपनरिआयुर्वंदनकारणं पृष्ठः स योगी उवाच-" पद्माऽक्षदंडपरिकरचिट्ठरुपलक्ष्ययुगोत्तमगुरवस्त्वया वंदनीया " इति दिव्यज्ञानशक्तिमतः कणयरीपाऽभिधानस्वगुरोर्वचसा वंदित " इति । __ श्रीदेवसुन्दरसूरीणां च श्रीज्ञानसागरसूरयः, श्रीकुलमंडनसूरयः, श्रीगुणरत्नसूरयः, श्रीसोमसुंदरसूरयः, श्रीसाधुरत्नसूरयश्चेति पंचशिष्यास्तत्र श्रीज्ञानसागरसूरीणां वि० पंचाधिके चतुर्दशशत १४०५ वर्षे जन्म, सप्तदशाधिके १४१७ दीक्षा, एकचत्वारिंशदधिके १४ ४ १ सूरिपदं, षष्ठयधिके १४६० स्वर्ग: । स च चतुर्थः । तदुक्तं गुर्वावल्यां (श्लो० ३३८, ३३९) खरतरपक्षश्राडो, मंत्रिवरो गोवल: सकलरात्रिम् । अनशनसिद्धौ भक्त्या-ऽगुरुकर्पूरादिभोगकरः ॥ १ ॥ ईषन्निद्रामाप्याऽपश्यत्स्वप्ने सुदिव्यरूपधरान् । तानिति वदतस्तुयें, कल्पे स्मः शक्रसमविभवाः ॥ २ ॥ युग्ममिति ॥ तत्कृता ग्रंथाच-श्रीआवश्यकौघनिर्युक्त्याद्यनेकग्रंथावचूर्णयः, श्रीमुनिसुव्रतस्तवघनौधनवखण्डपार्श्वनाथस्तवादि च ॥ श्रीकुलमण्डनसूरीणां च वि० नवाधिके चतुर्दशशते १४०९ जन्म, सप्तदशाधिके १४१७ व्रतं, द्विचत्वारिंशदधिके १४४२ सूरिपदं, पंचपंचाशदधिके १४५५ स्वर्गः ॥ सिद्धान्तालापकोद्धारः विश्वश्रीधरेत्यादिअष्टादशारचक्रबंधस्तव-गरीयो० हारबंधस्तवादयश्च तत्कृतग्रन्थाः । श्रीगुणरत्नसूरीणां चासाधारणो नियमः । तदुक्तम् ( गु० श्लो० ३८१ ) जगदुत्तरो हि तेषां, नियमोऽवष्टंभरोषविकथानां । आसन्नां मुक्तिरमां, वदति चरित्रादिनैर्मल्यात् ॥ १॥ इति तत्कृताश्च ग्रंथा:-क्रियारत्नसमुच्चयः, षड्दर्शनसमुच्चयबृहवृत्त्यादयः ॥ श्रीसाधुरत्नसूरिणां कृतिर्यतिजीतकल्पवृत्त्यादिकेति ॥ छ । ५० पण्णोत्ति, श्रीदेवसुंदरसूरिपट्टे पंचाशत्तमः श्रीसोमसुन्दरसूरिः। तस्य वि० त्रिंशदधिके चतुर्दशशते १४३० वर्षे मा० व० चतुर्दश्याम् शुक्रे जन्म, सप्तत्रिंशदधिके १४३७ व्रतं, पञ्चाशदधिके १४५० वाचकपदं, सप्तपञ्चाशदधिके १४५७ सूरिपदं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005201
Book TitleTapagaccha Pattavali
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherVijaynitisurishwarji Jain Library
Publication Year1940
Total Pages354
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy