SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ महोपाध्यायश्रीधर्मसागरगणिरचितं श्रीतपागच्छपट्टावली सूत्रम् [स्वोपनया वृत्या समलंकृतम्] सिरिमंतो सुहहेउ, गुरुपरिवाडीइ आगओ संतो। पज्जोसवणाकप्पो, वाइजह तेण तं वुच्छं ॥१॥ व्याख्या-सिरिमंतोत्ति, यत्तदोनित्याभिसंबंधात् येन कारणेन श्रीमान् सश्रीकः श्रियां मंत्रो वा पर्युषणाकल्पो गुरुपरिपाट्या समागतः सन् वाच्यते । उपलक्षणात् श्रूयते च । किं लक्षणः ? शुभहेतुः स्वर्गापवर्गकारण । तेन कारणेनाहं तां गुरुपरिपाटीं वक्ष्ये इत्यन्वयः । श्रीमानिति विशेषणं तीर्थकरचरित्रस्थविरावलीनामकीर्तनपुरस्सरं साध्वाचारप्रतिपादनेन सर्वेष्वपि मंगलभतेषु श्रुतेषु सश्रीकत्वमस्यैवेति ख्यापनपरमिति । गुरुपरिपाट्यागत इति च विशेषणं । गुरुपरिपाट्यागतयोगाद्यनुष्ठानविधिनैव वाच्यमानः । 'एगग्गचित्ता जिणसासणम्मि, पभावणापूभपरायणाजे।' इत्यादि विधिना च श्रूयमाणः, शुभहेतुर्मोक्षफलहेतुर्नान्यथेति ज्ञापनपरमिति गाथार्थः ॥ १ ॥ गुरुपरिवाडीमूलं, तित्थयरो बदमाणनामेणं । तप्पडोदयपढमो, सुहम्मनामेण (१) गणसामी ॥२॥ -श्री वर्धमानतीर्थकरः । १ तत्पढे श्रीसुधर्मास्वामी । व्याख्या-गुरुपरिवाडित्ति, गुरुपरिपाट्या मूलमाथं कारणं वर्धमाननाम्ना तीर्थकरः । तीर्थकतो हि आचार्यपरिपाट्या उत्पत्तिहेतवो भवंति न पुनस्तदंतर्गताः । तेषां स्वयमेव तीर्थप्रवर्तनेन कस्यापि पट्टधरत्वाभावात् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005201
Book TitleTapagaccha Pattavali
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherVijaynitisurishwarji Jain Library
Publication Year1940
Total Pages354
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy