________________
: २५० :
१-तस्मात् श्रीमहावीरस्य पट्टे उदये च प्रथमः श्रीसुधर्मास्वामी पंचमो गणधरः । स च किं लक्षणो ? गणस्वामी यत एकादशानामपि गणधरपदस्थापनावसरे श्रीवीरेण श्रीसुधर्मास्वामिनं पुरस्कृत्य गणोऽनुज्ञातः दुष्प्रसभं यावत् श्रीसुधर्माखाम्यपत्यानामेव प्रवर्तनात् ॥ तत्पट्टोदयेत्यत्रोदयपदं प्रथमोदयस्यापि प्रथमाचार्यः श्रीसुधर्मेति सूचकं ॥ स च पंचाशद वर्षाणि (५०) गृहस्थपर्याये, त्रिंशद् वर्षाणि ( ३०) वीरसेवायां, वीरे निर्वते वा द्वादशवर्षाणि (१२) छामस्थ्ये, अष्टौ (८) वर्षाणि केवलिपाये चेति सर्वायुः शतमेकं ( १००) परिपाल्य श्रीवीराद विंशत्या (२० ) वर्षेः सिद्धिं गतः ॥ श्रीवीरज्ञानोत्पत्तेश्चतुर्दश (१४) वर्षे जमालिनामा प्रथमो निहवः । षोडश (१६) वर्षे तिष्यगुप्तनामा द्वितीयो निह्नवः ॥ २॥
बीओ जंबू (२) तईओ, पभवो (३) सिजंभवो (४) चउत्थो अ। पचमओ जसमद्दो (५), छट्ठो संभूय-भद्दगुरू (६) ॥ ३॥
२-तत्पष्टे श्रीजंबूस्वामी । ३-तत्पट्टे श्रीप्रभवस्वामी । ४-तत्पष्टे श्रीवयंभवस्वामी । ५-तत्प? श्रीयशोभद्रस्वामी। ६-तत्पट्टे श्रीसंभूतिविजयश्रीभद्रबाहुस्वामिनो।
व्याख्या-२-बीओ जंबूत्ति, श्रीसुधर्मास्वामिपट्टे द्वितीयः श्रीजंबूस्वामी । स च नवनवतिकोटिसंयुक्ता अष्टौ कन्यकाः परित्यज्य श्रीसुधर्मस्वाम्यतिके प्रजितः । स च षोडश (१६) वर्षाणि गृहस्थपर्याये, विंशति (२०) वर्षाणि व्रतपर्याये, चतुश्चत्वारिंशद्वर्षाणि (४४) युगप्रधानपर्याये चेति सर्वायुरशीति (८०) वर्षाणि परिपाल्य श्रीवीरात चतुःषष्टि (६४) वर्षेः सिद्धः । अत्र कविः
मत्कृते जंबुना त्यक्ता, नवौढा नवकन्यकाः । तन्मन्ये मुक्तिवध्वाऽन्यो, न वृतो भारतो नरः ॥ १ ॥ चित्तं त नीतं वनिताविकारै-वित्तं न नीतं चतुरैश्च चौरैः । यद्देहगेहे द्वितयं निशीथे, जंबूकुमाराय नमोऽस्तु तस्मै ॥ २ ॥ मण १ परमोहि २ पुलाए ३, आहार ४ खवग ५ उवसमे ६ कप्पे ।
संजमतिग ८ केवल ९ सि-ज्झाणा य १० जंबुम्मि वुच्छिण्णा ॥ ३ ॥ ३-तईओत्ति, श्रीजंबूस्वामिपट्टे तृतीयः श्रीप्रभवस्वामी । स च त्रिंशद ( ३० ) वर्षाणि गृहस्थपर्याये, चतुश्चत्वारिंशत् (४४) वर्षाणि व्रतपर्याये, एकादश (११) वर्षाणि युगप्रधानपर्याये घेति सर्वायुः पंचाशीति (८५) वर्षाणि परिपाल्य, श्रीवीरात् पंचसप्तति(७५)वर्षातिकमे स्वर्गभागिति ।। छ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org