________________
:
२५१
:
४-सिज्जंभवोत्ति, श्रीप्रभवस्वामिप्रहितसाधुमुखात् " अहो कष्टमहो कष्ट, तत्त्वं न ज्ञायते परम् ” इत्यादि वचसा यज्ञस्तभादयः श्रीशांतिनाथबिंबदर्शनादवाप्तधर्मा प्रव्रज्य, क्रमेण मनकनाम्नः स्वसुतस्य निमित्तं दशवकालिकं कृतवान् ।
यतः—कृतं विकालवेलायां, दशाध्ययनगर्भितम् ।
दशवैकालिकमिति–नाम्ना शास्त्रं बभूव तत् ॥ १॥ अतः परं भविष्यंति, प्राणिनो ह्यल्पमेधसः । कृतार्थास्ते मनकवत्, भवंतु त्वत्प्रसादतः ॥२॥ श्रुतांभोजस्य किंजल्क, दशवैकालिकं ह्यदः। आचम्याचम्य मोदन्ता-मनगारमधुव्रताः ॥३॥ इति संघोपरोधेन, श्रीशय्यंभवसूरिभिः ।
दशवैकालिको ग्रंथों, न संवत्रे महात्मभिः ॥४॥ स चाऽष्टाविंशति (२८) वर्षाणि गृहस्थपर्याये, एकादश (११) व्रते, त्रयोविंशति (२३) युग० चेति सर्वायुर्दापष्ठि (६२)वर्षाणि परिपाल्य श्रीवीरादष्टनवति(९८)वर्षातिक्रमे स्वर्गभा ॥छ॥
५-पंचमओत्ति, श्रीशय्यंभवस्वामिपट्टे पंचम श्रीयशोभद्रस्वामी । स च द्वाविंशति (२२) वर्षाणि गृहे, चतुर्दश (१४) व्रते, पञ्चाशत् (५०) वर्षाणि युग० सर्वायुः षडशीति (८६) वर्षाणि परिपाल्य श्रीवीरादष्टचत्वारिंशदधिके शते(१४८)ऽतिक्रांते स्वर्गभाक् ॥ छ ।
६-छट्ठो संभूयत्ति, श्रीयशोभद्रस्वामिपट्टे षष्ठौ पदैकदेशे पदसमुदायोपचारात् संभूतेति श्रीसंभृतिविजयः, भद्दत्ति श्रीभद्रबाहुस्वामीत्युभावपि षष्ठपदधरावित्यर्थः । तत्र श्रीसंभूतिविजयो द्विचत्वारिंशत् (४२) व० गृहे, चत्वारिंशत् (४०) व्रते, अष्टौ (८) युग० चेति सर्वायुर्नवति (९०) वर्षाणि परिपाल्य स्वर्गभाक् ॥
श्रीभद्रबाहुस्वामी तु श्रीआवश्यकादिनियुक्तिविधाता । व्यंतरीभूतवराहमिहिरकतसंघोपद्रवनिवारकोपसर्गहरस्तवनेन प्रवचनस्य महोपकारं कृत्वा पञ्चचत्वारिंशत् (४५) गृहे, सप्तदश ( १७ ) व्रते, चतुर्दश ( १४ ) युगप्र० चेति सर्वायुः षट्सप्तति (७६ ) परिपाल्य श्रीवीरात् सप्तत्यधिकशत( १७० )वर्षे स्वर्गभाक् ॥ छ ॥ ३ ॥
सिरिथूलभद्द सत्तम ७, अट्टमगा महागिरी-सुहत्थी ८ अ । सुटिअ-सुप्पडिबद्ध, कोडिअकाकंदिगा नवमा ९॥ ४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org