________________
-: २५२ :
७- तत्पट्टे श्रीस्थूलभद्रस्वामी । ८- तत्पट्टे श्री आर्यमहागिरि - श्री आर्यसुहस्तिनौ । ९- श्री आर्यसुहस्तिपट्टे श्रीसुस्थितसुप्रतिबद्धो ।
व्याख्या -७ सिरिथूलभद्दत्ति, श्रीसंभूतिविजय - भद्रबाहुस्वामिनोः सप्तमपट्टः श्रीस्थूलभद्रस्वामी कोशाप्रतिबोघजनितयशौघवलीकृताखिलजगत् सर्व्वजनप्रसिद्धः । चतुर्दश पूर्वविदां पश्चिमः । क्वचिच्चत्वार्यन्त्यानि पूर्वाणि सूत्रतोऽधीतवानित्यपि । स च त्रिंशत् ० ३० गृहे, चतुर्विंशति २४ व्रते, पंचचत्वारिंशत् ४५ युगप्रधाने, सर्वायुर्नवनवति ९९ वर्षाणि परिपाल्य श्रीवीरात् पंचदशाधिकशतद्वय २१५ वर्षे स्वर्गभाक् । अत्र कवि :
--
श्री मितोऽपि शकटासुतं विचार्य, मन्यामहे वयममुं भटमेकमेव । देवोऽद्रिदुर्गमधिरुह्य जिघाय मोहं, यन्मोहनालयमयं तु वशी प्रविश्य ॥ १ ॥
श्रीवीरनिर्वाणात् चतुर्दशाधिकवर्षशतद्वये २१४ आषाढाऽऽचार्यात् अव्यक्तनामा तृतीयो निह्नवः ॥ छ ॥
<- अट्टमगत्ति, श्रीस्थूलभद्रपऽष्टम पट्टधरौ श्री आर्यमहागिरिः श्रीसुहस्ती चेत्युभावपि गुरुभ्रातरौ । तत्र श्रीआर्यमहागिरिर्जिनकल्पिकतुलनामारूढो, जिनकल्पिककल्पः । त्रिंशत् ३० गृहे, चत्वारिंशत् ४० व्रते, त्रिंशत् ३० युग० सर्वायुः शत १०० वर्षं परिपाल्य स्वर्गभाक् ॥ द्वितीयेनाऽऽर्यसुहस्तिना पूर्वभवे द्रमकीभूतोऽपि संप्रतिजीवः प्रव्राज्य त्रिखंडाधिपतित्वं प्रापितः । येन संप्रतिना त्रिखंडमितापि मही जिनप्रासादमंडिता विहिता, साधुवेषधारिनिजवंठपुरुषप्रेषणेनाsनार्यदेशेऽपि साधुविहारः कारितः ॥ स च आर्यसुहस्ती त्रिंशत् ३० गृहे, चतुर्विंशति २४ व्रते, षट्चत्वारिंशत् ४६ युग० सर्वायुः शतमेकं १०० परिपाल्य श्रीवीरात् एकनवत्यविकशतद्वये २९१ स्वर्गभाकू ।
यद्यपि श्रीस्थूलभद्रस्य पंचदशाधिकशतद्वय २१५ वर्षे स्वर्गे गुर्वावल्यनुसारेणोक्तः । श्रीमहागिरि - सुहस्तिनौ तु त्रिंशत् ३० वर्षाणि गृहस्थपर्यायावपि शत १०० वर्षजीविनौ दुषमासंघस्तोत्रयंत्रकानुसारेणोक्तौ ॥ तथा च सति श्रीआर्यसुहस्ति: श्रीस्थूलभद्रदीक्षितो न संपद्येत, तथापि गृहस्थपर्यायवर्षाणि न्यूनानि व्रतवर्षाणि चाधिकानीति विभाव्य घटनीयमिति ॥
तथा श्रीसुहस्तिदीक्षिताऽवंतिसुकुमालमृतिस्थाने तत्सुतेन देवकुलं कारितं तस्य च " महाकाल " इति नाम संजातं ।
श्रीवीरनिर्वाणात् विंशत्यधिकवर्षशतद्वये २२० अश्वमित्रात् सामुच्छेदिकनामा चतुर्थी निह्नवः । तथा अष्टविंशत्यधिकशतद्वये २२८ गंगनामा द्विक्रियः पंचमो निह्नवः ॥ छ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org