________________
: २५३ : ९-सुट्ठिअत्ति, श्रीसुहस्तिनः पट्टे नवमौ श्रीसुस्थित-सुप्रतिबद्धौ, कोटिक--कार्कदिकौ । कोटिशः सूरिमंत्रनापात् कोटयशसूरिमंत्रधारित्वाद्वा । ताभ्यां कौंटिकनाम्ना गच्छोऽभूत्, अयं भावः-श्रीसुधर्मस्वामिनोष्टौ सूरीन यावत् निग्रंथाः साधवोऽनगारा इत्यादि सामान्यार्थाभिधायिन्याख्याऽऽसीत् नवमे च तत्पट्टे कोटिका इति विशेषार्थावबोधकं द्वितीयं नाम प्रादुर्भूतं ॥
__ श्रीआर्यमहागिरेस्तु शिष्यौ बहुल--बलिस्सहौ यमलभ्रातरौ, तस्य बलिस्सहस्य शिष्यः स्वातिः तत्त्वार्थादयो ग्रंथास्तु तत्कृता एव संभाव्यते ।
तच्छिष्यः श्यामाचार्यः प्रज्ञापनाकत श्रीवीरात् षट्सप्तत्यधिकशतत्रये ३७६ स्वर्गभाकू ॥ तच्छिष्यः सांडिल्यो जीतमर्यादाकदिति नंदिस्थविरावल्यामुक्तमस्ति । परं सा पट्टपरंपराऽन्येति बोध्यं ॥४॥
सिरिइंददिनमरि दसमो १० इकारसो अ दिनगुरू ११ ।
बारसमो सीहगिरी १२, तेरसमो वयरसामिगुरू १३ ॥ ५॥ १०-तत्पट्टे श्रीइंद्रदिन्ननरिः । ११–तत्पट्टे श्रीदिन्नमरिः । १२-तत्पट्टे श्रीसिंहगिरिः । १३–तत्पट्टे श्रीवज्रस्वामी ।
व्याख्या-१०--सिरि इंदत्ति, श्रीसुस्थित-सुप्रतिबद्धयोः पट्टे दशमः श्रीइंद्रदिन्ननरिः। अत्रांतरे श्रीवीर० त्रिपंचाशदधिकचतुःशतवर्षातिक्रमे ४५३ गर्दभिल्लोच्छेदी कालकसूरिः । श्रीवीरात् त्रिपञ्चाशदधिकचतु:शतवर्षातिक्रमे ४५३ भगुकच्छे आर्यखपुटाऽऽचार्य इति पट्टावल्यां । प्रभावकचरित्रे तु चतुरशीत्यधिकचतुःशत ४८४ वर्ष आर्यखपुटाचार्यः । सप्तषष्ठयधिकचतुःशत४६७वर्षे आर्यमंगुः । वृद्धवादी पादलिप्तश्च तथा सिद्धसेनदिवाकरो, येनोज्जयिन्यां महाकालप्रासादरुद्रलिंगस्फोटनं विधाय कल्याणमंदिरस्तवेन श्रीपार्श्वनाथबिंब प्रकटीकृतं, श्रीविक्रमादित्यश्च प्रति बोधितस्तद्राज्यं तु श्रोवीर० सप्ततिवर्षशतचतुष्टये ४७० संजातं । तानि वर्षाणि चैवम्
जं रयणिं कालगओ, अरिहा तित्थंकरो महावीरो । तं रयणिं अवणिवई, अहिसित्तो पालओ राया ॥ १ ॥ सट्ठी पालयरण्णो ६०, पणवण्णसयं तु होई नंदाणं १५५ ।। अट्ठसयं मुरियाणं १०८, तीस चिअ पूसमित्तस्स ३० ॥ २ ॥ बलमित्त-भाणुमित्त, सट्ठी ६० वरिसाणि चत्त नहवाणे ४० । तह गद्दभिकरजं, तेरस १३ वरिस सगस्स चउ (वरिसा) ४ ॥३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org