________________
: २५४ : ११-इक्कारसोत्ति, श्रीइन्द्रदिन्नसूरिपट्टे एकादशः श्रीदिनपरिः । १२-बारसमोत्ति, श्रीदिन्नसूरिपट्टे द्वादशः श्रीसिंहगिरिः।
१३-तेरसमोत्ति, श्रीसिंहगिरिपट्टे त्रयोदशः श्रीवजस्वामी । यो बाल्यादपि जातिस्मृतिभाग नभोगमनविद्यया संघरक्षाकत, दक्षिणस्यां बौद्धराज्ये जिनेन्द्रपूनानिमित्तं पुष्पाद्यानयनेन प्रवचनप्रभावनाकृत् देवाभिवंदितो दशपूर्वविदामपश्चिमो वजशाखोत्पत्तिमूलं । तथा स भगवान् षण्णवत्यधिकचतुःशत ४९६ वर्षाते जातः सन् अष्टौ ८ वर्षाणि गृहे, चतुश्चत्वारिंशत् ४४ वर्षाणि व्रते, षत्रिंशत् ३६ वर्षाणि युगप्रधानपदे सर्वायुरष्टाशीति ८८ वर्षाणि परिपाल्य श्रीवीरात् चतुरशीत्यधिकपंचशत ५८४ वर्षान्ते स्वर्गभाक् । श्रीवजस्वामिनो दशपूर्व-चतुर्थसंहननसंस्थानानां व्युच्छेदः ।
चतुष्कुलसमुत्पत्ति-पितामहमहं विभुं । दशपूर्वनिर्धि वंदे, वजस्वामिमुनीश्वरं ॥ १ ॥
अत्र श्रीआर्यसुहस्तिश्रीवजस्वामिनोरंतराले १ श्रीगुणसुंदरसूरिः, २ श्रीकालिकाचार्यः, ३ श्रीस्कंदिलाचार्यः, ४ श्रीरेवतीमित्रसूरिः, ५ श्रीधर्मसूरिः, ६ श्रीभद्रगुप्ताचार्यः, ७ श्रीगुप्ताचार्यश्चेति क्रमेण युगप्रधानसप्तकं बभूव । तत्र श्रीवीरात् त्रयस्त्रिंशदधिकपंचशत ५३३ वर्षे श्रीआयरक्षितसूरिणा श्रीभद्रगुप्ताचार्यो निर्यामितः खर्गभागिति पट्टावल्यां दृश्यते, परं दुष्षमासंघस्तवयंत्रकानुसारेण चतुश्चत्वारिंशदधिकपंचशत ५४४ वर्षातिक्रमे श्रीआर्यरक्षितसूरीणां दीक्षा विज्ञायते तथा चोक्तसंवत्सरे निर्यापणं न संभवतीत्येतद् बहुश्रुतगम्यं ।
तथाऽष्टचत्वारिंशदधिकपंचशतवर्षान्ते ५४८ त्रिराशिकजित् श्रीगुप्तसूरिः स्वर्गभाक् । तथा वीरात् सपादपंचशत ५२५ वर्षे श्रीशत्रुजयोच्छेदः सप्तत्यधिकपंचशत ५७० वर्षे जावड्युद्धार इति ॥ ५ ॥
सिरिवजसेणसूरी १४, चाउद्दसमो चंदसूरि पंचदसो १५ ।
सामंतभद्दसूरी, सोलसमो १६ रणवासरई ॥ ६ ॥ १४तत्पट्टे श्रीवज्रसेनः। १५तत्पद्ये श्रीचंद्रसरिः । १६तत्पट्टे श्रीसामंतभद्रसरिः(वनवासी)
व्याख्या–१४ सिरिवज्जत्ति, श्रीवजस्वामिपट्टे चतुर्दशः श्रीवज्रसेनसरिः । स च दुर्भिक्षे श्रीवजस्वामिवचसा सोपारके गत्वा जिनदत्तगृहे ईश्वरीनाम्न्या तद भार्यया लक्षपाकभोज्ये विषनिक्षेपविधानचिंतनश्रावणे सति प्रातः सुकालो भावीत्युक्त्या[ क्त्वा ], विषं निवार्य १ नागेंद्र, २ चंद्र, ३ निर्वृति, ४ विद्याधराख्यान् चतुरः सकुटुंबानिभ्यपुत्रान् प्रव्राजितवान् । तेभ्यश्च स्वस्वनामांकितानि चत्वारि कुलानि संजातानोति । स च श्रीवजसेना नव ९ वर्षाणि गृहे,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org