Book Title: Tapagaccha Pattavali
Author(s): Kalyanvijay Gani
Publisher: Vijaynitisurishwarji Jain Library

View full book text
Previous | Next

Page 304
________________ : २५१ : ४-सिज्जंभवोत्ति, श्रीप्रभवस्वामिप्रहितसाधुमुखात् " अहो कष्टमहो कष्ट, तत्त्वं न ज्ञायते परम् ” इत्यादि वचसा यज्ञस्तभादयः श्रीशांतिनाथबिंबदर्शनादवाप्तधर्मा प्रव्रज्य, क्रमेण मनकनाम्नः स्वसुतस्य निमित्तं दशवकालिकं कृतवान् । यतः—कृतं विकालवेलायां, दशाध्ययनगर्भितम् । दशवैकालिकमिति–नाम्ना शास्त्रं बभूव तत् ॥ १॥ अतः परं भविष्यंति, प्राणिनो ह्यल्पमेधसः । कृतार्थास्ते मनकवत्, भवंतु त्वत्प्रसादतः ॥२॥ श्रुतांभोजस्य किंजल्क, दशवैकालिकं ह्यदः। आचम्याचम्य मोदन्ता-मनगारमधुव्रताः ॥३॥ इति संघोपरोधेन, श्रीशय्यंभवसूरिभिः । दशवैकालिको ग्रंथों, न संवत्रे महात्मभिः ॥४॥ स चाऽष्टाविंशति (२८) वर्षाणि गृहस्थपर्याये, एकादश (११) व्रते, त्रयोविंशति (२३) युग० चेति सर्वायुर्दापष्ठि (६२)वर्षाणि परिपाल्य श्रीवीरादष्टनवति(९८)वर्षातिक्रमे स्वर्गभा ॥छ॥ ५-पंचमओत्ति, श्रीशय्यंभवस्वामिपट्टे पंचम श्रीयशोभद्रस्वामी । स च द्वाविंशति (२२) वर्षाणि गृहे, चतुर्दश (१४) व्रते, पञ्चाशत् (५०) वर्षाणि युग० सर्वायुः षडशीति (८६) वर्षाणि परिपाल्य श्रीवीरादष्टचत्वारिंशदधिके शते(१४८)ऽतिक्रांते स्वर्गभाक् ॥ छ । ६-छट्ठो संभूयत्ति, श्रीयशोभद्रस्वामिपट्टे षष्ठौ पदैकदेशे पदसमुदायोपचारात् संभूतेति श्रीसंभृतिविजयः, भद्दत्ति श्रीभद्रबाहुस्वामीत्युभावपि षष्ठपदधरावित्यर्थः । तत्र श्रीसंभूतिविजयो द्विचत्वारिंशत् (४२) व० गृहे, चत्वारिंशत् (४०) व्रते, अष्टौ (८) युग० चेति सर्वायुर्नवति (९०) वर्षाणि परिपाल्य स्वर्गभाक् ॥ श्रीभद्रबाहुस्वामी तु श्रीआवश्यकादिनियुक्तिविधाता । व्यंतरीभूतवराहमिहिरकतसंघोपद्रवनिवारकोपसर्गहरस्तवनेन प्रवचनस्य महोपकारं कृत्वा पञ्चचत्वारिंशत् (४५) गृहे, सप्तदश ( १७ ) व्रते, चतुर्दश ( १४ ) युगप्र० चेति सर्वायुः षट्सप्तति (७६ ) परिपाल्य श्रीवीरात् सप्तत्यधिकशत( १७० )वर्षे स्वर्गभाक् ॥ छ ॥ ३ ॥ सिरिथूलभद्द सत्तम ७, अट्टमगा महागिरी-सुहत्थी ८ अ । सुटिअ-सुप्पडिबद्ध, कोडिअकाकंदिगा नवमा ९॥ ४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354