SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ ५४५दी] : २१३ .. શ્રી આણદવિમળસૂરિ सिरिविजयदाणसूरी, पट्टे सगवण्णए ५७ अ अडवण्णे । सिरिहीरविजयसूरी ५८, संपइ तवगणदिणिंदसमा ॥ १९ ॥ तत्पढे श्रीविजयदानसरिः। तत्पट्टे श्रीहीरविजयमारिः। ગાથાર્થ –શ્રીઆણંદવિમળસરિની પાટે સત્તાવનામાં પટ્ટધર શ્રી વિજયદાનસૂરિ થયા અને તેમની પાટે તપગચ્છરૂપી ગગનમાં સૂર્યસમાન શ્રી હીરવિજયસૂરિ અઠ્ઠાવનમા પટ્ટધર થયા. ૧૯ व्याख्या-६७ सिरिविजयत्ति-श्रीआनन्दविमलसूरिपट्टे सप्तपंचाशत्तमः श्रीविजयदानसूरिः । येन भगवता स्तंभतीर्थाऽ-हम्मदावाद-पत्तन-महीशानक गन्धारबंदिरादिपु महामहोत्सवपुरस्सरमनेकजिनबिंबशतानि प्रतिष्ठितानि ।। यदुपदेशमवाप्य सूरत्राणमहिमूदमान्येन मंत्रिगलराजाऽपरनामकमलिकाश्रीनगदलेनाऽश्रुतपूर्वी पाण्मासों शत्रुजयमुक्तिं कारयित्वा सर्वत्र कुंकुमपत्रिकाप्रेषणपुरस्सरसम्मोलिताऽनेकदेश-नगरग्रामादिसंघसमेतेन श्रीशत्रुजययात्रा, मुक्ताफलादिना श्रीशत्रुनयवर्धापनं श्रीभरतचक्रिवच्चक्रे । तथा यदुपदेशपरायणैर्गाधारीय सा० रामजी, अहम्मदावादसत्क सं० कुंअरजीप्रभृतिभिः शत्रुजये चतुर्मुखाऽष्टापदादिप्रासादा देवकुलिकाश्च कारिताः । उज्जयन्तगिरौ जीर्णप्रासादोंद्वारश्च॥ तथा सूर्यस्येव यस्योदये तारका इवोत्कटवादिनोऽदृश्यतां प्रापुः । यो भगवान् सिद्धांतपारगामी अखण्डितप्रतापाज्ञोऽप्रमत्तया रूपश्रिया च श्रीगौतमप्रतिमो गूर्जर-मालव-मरुस्थली-कुंकुणादिदेशेष्वशेषेप्वप्रतिबद्धविहारी षष्ठाऽष्टमादितपः कुर्वन्नपि यावजीवं घृताऽतिरिक्तविकृतिपंचकपरिहारी मादृशामपि शिष्याणां श्रुतादिदाने वैश्रमणाऽनुकारी अनेकवारैकादशांगपुस्तकशुद्धिकारी ! किंबहुना ? तीर्थकर इव हितोपदेशादिना परोपकारी सर्वजनप्रतीतः ॥ तस्य वि० त्रिपंचाशदधिके पंचदशशत १५५३ वर्षे जामलास्थाने जन्म, द्वाषष्ठ्यधिके १५६२ दीक्षा, सप्ताशीत्यधिके १५८७ सूरिपदं, द्वाविंशत्यधिकषोडशशत १६२२ वर्षे वटपल्यामनशनादिना सम्यगाराधनपुरस्सरं स्वर्गः ॥ ५८ अडवण्णेत्ति-श्रीविजयदान सूरिपट्टेऽष्टपञ्चाशत्तमाः श्रीहीरविजयसूरयः । कि विशिष्टाः १ संप्रति तपागच्छे आदित्यसदृशास्तदुद्योतकत्वात् । तेषां विक्रमतः त्र्यशीत्यधिके पश्चदशशतवर्षे १५८३ मार्गशीर्षशुक्लनवमीदिने प्रलादनपुरवास्तव्य ऊकेशज्ञातीय Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005201
Book TitleTapagaccha Pattavali
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherVijaynitisurishwarji Jain Library
Publication Year1940
Total Pages354
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy