Book Title: Tapagaccha Pattavali
Author(s): Kalyanvijay Gani
Publisher: Vijaynitisurishwarji Jain Library

View full book text
Previous | Next

Page 265
________________ શ્રી આણંદવિમળસૂરિ : २१४ : [श्री तपा२४ सा० कुंराभार्यानाथीगृहे जन्म, षण्णवत्यधिके १५९६ कार्तिकबहुलद्वितीयायां २ पत्तननगरे दीक्षा, सप्ताऽधिके षोडशशतवर्षे १६०७ नारदपुर्या श्रीऋषभदेवप्रासादे पण्डितपदम् । अष्टाधिके १६०८ माघशुक्लपञ्चमीदिने नारदपुर्या श्रीवरकाणकपाश्वनाथसनाथे श्रीनेमिनाथप्रासादे वाचकपदम् । दशाधिके १६१० सीरोहीनगरे सूरिपदम् ॥ ___तथा येषां सौभाग्यवैराग्यनि:स्पृहतादिगुणश्रेणेरेकमपि गुणं वचोगोचरीकर्तुं वाचस्पतिरप्यचतुरः । तथा स्तम्भतीर्थे येषु स्थितेषु तत्रत्य श्रद्धालुभिः टङ्ककानामेका कोटिः प्रभावनादिभिर्व्ययीकृता । येषां चरणविन्यासे प्रतिपदं सुवर्णटङ्करूप्यनाणकमोचनं पुरतश्च मुक्ताफलादिभिः स्वस्तिकरचनं प्रायस्तदुपरि च रौप्यकनाणकमोचनं चेत्यादि संप्रत्यपि प्रत्यक्षसिद्धम् ॥ यैश्च सीरोह्यां श्रीकुन्थुनाथबिम्बानां प्रतिष्ठा कृता । तथा नारदपुर्यामनेकानि जिनबिम्बानि प्रतिष्ठानि । तथा स्तम्भतीर्थाऽहम्मदावादपत्तननगरादौ अनेकटङ्कलक्षव्ययप्रकष्टाभिरनेकाभिः प्रतिष्ठाभिः सहस्रशो बिम्बानि प्रतिष्ठितानि । येषां च विहारादौ युगप्रधानसमानाऽतिशयाः प्रत्यक्षसिद्धा एव ॥ तथाऽहम्मदावादनगरे लुङ्कामताऽधिपतिः ऋषिमेघजीनामा स्वकीयमताऽऽधिपत्यं " दुर्गतिहेतु 'रिति मत्वा रज इव परित्यज्य पञ्चविंशतिमुनिभिः सह सकलराजाधिराजपातिसाहि-श्रीअकब्बरराजाज्ञापूर्वकं तदीयाऽऽतोद्यवादनादिना महामहपुरस्सरं प्रव्रज्य यदीयपादाम्भोनसेवापरायणो जातः । एतादृशं च न कस्याऽप्याऽऽचार्यस्य श्रुतपूर्वम् । किञ्च । येषामशेषसंविग्नसूरिशेखराणामुपदेशात् सहस्रशो गजानां लक्षशो वाजिनां गूर्जर-मालव-बिहार-अयोध्या-प्रयाग-फतेहपुर--दिल्ली-लाहुर-मुलतान--क्याबिल-अजमेरबङ्गालाद्यभिधानानामनेकदेशसमुदायात्मकानां द्वादशसूबानां चाऽधीश्वरो महाराजाधिराजशिर:शेखरः पातिसाहिश्रीअकब्बरनरपतिः स्वकीयाखिलदेशेषु षाण्मासिकाऽमारिप्रवर्तन, जीजया:भिधानकरमोचनं च विधाय सकललोकेषु जाग्रत्प्रभावभवनं श्रीमजिनशासनं जनितवान् । तद् व्यतिकरो विस्तरतः श्रीहीरसौभाग्यकाव्यादिभ्योऽवसेयः । समासतस्त्वेवम् । ___ एकदा कदाचित् प्रधानपुरुषाणां मुखवार्तया श्रीमद गुरूणां निरुपमशमदमसंवेगवैराग्यादिगुणगणश्रवणतश्चमत्कृतचेतसा पातिसाहि-श्रीअकबरेण स्वनामाङ्कितं फुरमानं प्रेष्याऽतिबहुमानपुरस्सरं गन्धारबंदिरात् दिल्लीदेशे आगराख्यनगरासन्नश्रीफतेपुरनगरे दर्शनकृते समाकारिताः सन्तोऽनेकभव्यजनक्षेत्रेषु बोधिबीजं वपन्तः श्रीगुरवः क्रमेण विहारं कुर्वाणाः विक्रमत एकोनचत्वारिंशदधिकषोडशशतवर्षे १६३९ ज्येष्टबहुलत्रयोदशीदिने तत्र संप्राप्ताः । तदानीमेव Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354