Book Title: Sthanang Sutra Dipika Vrutti
Author(s): Vimalharsh Gani, Mitranandvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
स०३१४॥
श्रीस्थानाङ्ग
सूत्रदीपिका वृत्तिः । ॥३४२॥
जिनागमसङ्गमावदातबुद्धितया आरम्भपरिग्रहौ दुःखपरम्पराकारिसंसारकान्तारकारणभूततया त्याज्यावित्याकलयन् करणभटवशतया तयोः प्रवर्त्तमानयोः (नः) महान्त खेदं सन्तापं भयं चोद्वहतीति, यत्रावसरे शीलानि-समाधानविशेषा ब्रह्मचर्यविशेषा वा, व्रतानि-स्थूलप्राणातिपातविरमणादीनि, अन्यत्र तु शीलानि-अणुव्रतानि व्रतानि-सप्त शिक्षाव्रतानि तदिह न व्याख्यात, गुणव्रतादीनां साक्षादेवोपादानादिति, गुणव्रते-दिग्वतोपभोगपरिभोगबतलक्षणे विरमणानि-अनर्थदण्डविरतिप्रकारा रागादिविरतयो वा, प्रत्याख्यानानि-नमस्कारसहितादीनि, पौषधः-पर्वदिनमष्टम्यादि तत्रोपवसनम्-अभक्तार्थः पौषधोपवासः, एतेषां द्वन्द्वस्तान् प्रतिपद्यते-अभ्युपगच्छति, तत्रापि च 'से' तस्यैक आश्वासः प्रज्ञप्तः १, यत्रापि च सामायिक-सावद्ययोगपरिवर्जननिरवद्ययोगप्रतिसेवनलक्षण तद्वयवस्थितः श्राद्धः श्रमणभूतो भवति, तथा देशे-दिग्वतगृहीतस्य दिकपरिमाणस्य विभागोऽवकाशोऽवस्थानमवतारो यस्य तद्देशावकाशं तदेव देशावकाशिक-दिखतगृहीतस्य दिपरिमाणस्य प्रतिदिन संक्षेपकरणलक्षण सर्वव्रतसंक्षेपकरणलक्षण वाऽनुपालयति, तत्रापि च तस्यैक आश्वासः प्रज्ञप्त इति २, उद्दिष्टेत्यमावास्या परिपूर्णमित्यहोरात्र यावदाहारशरीरसत्कारत्यागब्रह्मचर्याव्यापारलक्षणभेदोपेतमिति ३, यत्रापि च पश्चिमैवाऽमङ्गलपरिहारार्थमपश्चिमा सा चासौ मरणमेवा न्तस्तत्र भवा मारणान्तिकी सा चेत्यपश्चिममारणान्तिकी सा चासौ संलिख्यतेऽनया शरीरकषायादीति संलेखनातपोविशेषः, सा चेति अपश्चिममारणान्तिकीसंलेखना तस्याः 'जूसण 'त्ति जोपणा सेवनालक्षणो यो धर्मस्तया 'जूसिए'त्ति जुष्टः सेवितोऽथवा क्षिप्तः [क्षपितः]-पितदेहो यः स तथा, भक्तपाने प्रत्याख्याते येन स तथा, पादपबदुपगतो-निश्चेष्टतया स्थितः पादपोपगतः, अनशनविशेष प्रतिपन्न इत्यर्थः, काल-मरणकालमनवकाशन तानुत्सुक इत्यर्थः, विहरति-तिष्ठति ।
..+0000000000000000000000000000000000000000000000000006
॥३४२॥
Jain Educatan
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454