Book Title: Sthanang Sutra Dipika Vrutti
Author(s): Vimalharsh Gani, Mitranandvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 406
________________ । सू०३६७-३५२ भीस्थानाङ्ग सूत्ररीपिका वृत्तिः । ॥३९६|| +4.04.000000.00+++000000+000000000000++++++000000++++ र्वन् वा चतुर्थमेघसमान इति १५ । करण्डको-वस्त्राभरणादिस्थान जनप्रतीतः, श्वपाककरण्डकः--चाण्डालकरण्डकः, स च प्रायश्चर्मपरिकोपकरणवर्धादिचा शस्थानतयाऽत्यन्तमसारो भवति, वेश्याकरण्डकस्तु जतुपूरितस्वर्णा भरणा| दिस्थानत्वात् किञ्चित्ततः सारोऽपि वक्ष्यमाणकरण्डकापेक्षया त्वसार एवेति, गृहपतिकरण्डकः-श्रीमत्कौदुम्बिककरण्डकः, स च विशिष्टमणिसुवर्णाभरणादियुकत्वात् सारतरः, राजकरण्डकस्तु अमूल्यरत्नादिभाननत्वात् सारतम इति १६, एवामाचार्यों यः षट्प्रज्ञापकगाथादिरूपमूत्रार्थधारी विशिष्ट क्रियाविकलश्च स प्रथमोऽत्यन्तासारत्वात् , यस्तु दुरधीतश्रुतलवोऽपि वागाडम्बरेण मुग्धजनमावर्जयति स द्वितीयः परीक्षाऽक्षमतया असारत्वादेव, यस्तु स्वससमयपरसमयज्ञः क्रियादिगुणयुक्तश्च स तृतीयःसारतरत्वात् , यस्तु समस्ताचार्यगुणयुकतया तीर्थकरकल्पः स चतुर्थःसारतमत्वात् सुधादिवद इति १७, सालो नामकः सालाभिधानवृक्षनातियुकत्वात् सालस्यैव पर्याया--धर्मा बहलच्छायत्वसेव्यत्वादयो यस्य स सालपर्याय इत्येकः, सालो नामैफ इति तथैव एरण्डस्येव पर्याया धर्मा अवहलच्छायादयो यस्य स एरण्डपर्याय इति द्वितीयः, एरण्डो नामैक एरण्डाभिधानवृक्षजातीयत्वात् सालपर्यायो बहलच्छायत्वादिधर्मयुरुत्वादिति तृतीयः, एरण्डो नामैकस्तथैव एण्डपर्यायः अबालच्छायत्वाघेरण्डधर्मयु कत्वादिति चतुर्थः १८, आचार्यस्तु साल इब सालो, यथा हि सालो जातिमानेवमाचार्योऽपि यः सत्कुलः सद्गुरुकुलश्च स साल एवो च्यते, तथा सालपर्यायः-सालवा, यथा हि सालः सच्छायत्वादिधर्मयुक्त एवं यो ज्ञानक्रियाप्रभवयशःप्रभृःतिगुणयुक्तो भवति स तथोच्यते इत्येकः, तथा सालो नामैक इति तथैव एरण्डपर्यायस्तूतविपर्ययादिति द्वितीयः, एवमितरावपीति १९, तथा सालस्तथैव साल एवं परिवारः--परिकरो यस्य स सालपरिवारः, एवं शेषत्रयमिति ॥३२६॥ Jan Education For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454