SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ । सू०३६७-३५२ भीस्थानाङ्ग सूत्ररीपिका वृत्तिः । ॥३९६|| +4.04.000000.00+++000000+000000000000++++++000000++++ र्वन् वा चतुर्थमेघसमान इति १५ । करण्डको-वस्त्राभरणादिस्थान जनप्रतीतः, श्वपाककरण्डकः--चाण्डालकरण्डकः, स च प्रायश्चर्मपरिकोपकरणवर्धादिचा शस्थानतयाऽत्यन्तमसारो भवति, वेश्याकरण्डकस्तु जतुपूरितस्वर्णा भरणा| दिस्थानत्वात् किञ्चित्ततः सारोऽपि वक्ष्यमाणकरण्डकापेक्षया त्वसार एवेति, गृहपतिकरण्डकः-श्रीमत्कौदुम्बिककरण्डकः, स च विशिष्टमणिसुवर्णाभरणादियुकत्वात् सारतरः, राजकरण्डकस्तु अमूल्यरत्नादिभाननत्वात् सारतम इति १६, एवामाचार्यों यः षट्प्रज्ञापकगाथादिरूपमूत्रार्थधारी विशिष्ट क्रियाविकलश्च स प्रथमोऽत्यन्तासारत्वात् , यस्तु दुरधीतश्रुतलवोऽपि वागाडम्बरेण मुग्धजनमावर्जयति स द्वितीयः परीक्षाऽक्षमतया असारत्वादेव, यस्तु स्वससमयपरसमयज्ञः क्रियादिगुणयुक्तश्च स तृतीयःसारतरत्वात् , यस्तु समस्ताचार्यगुणयुकतया तीर्थकरकल्पः स चतुर्थःसारतमत्वात् सुधादिवद इति १७, सालो नामकः सालाभिधानवृक्षनातियुकत्वात् सालस्यैव पर्याया--धर्मा बहलच्छायत्वसेव्यत्वादयो यस्य स सालपर्याय इत्येकः, सालो नामैफ इति तथैव एरण्डस्येव पर्याया धर्मा अवहलच्छायादयो यस्य स एरण्डपर्याय इति द्वितीयः, एरण्डो नामैक एरण्डाभिधानवृक्षजातीयत्वात् सालपर्यायो बहलच्छायत्वादिधर्मयुरुत्वादिति तृतीयः, एरण्डो नामैकस्तथैव एण्डपर्यायः अबालच्छायत्वाघेरण्डधर्मयु कत्वादिति चतुर्थः १८, आचार्यस्तु साल इब सालो, यथा हि सालो जातिमानेवमाचार्योऽपि यः सत्कुलः सद्गुरुकुलश्च स साल एवो च्यते, तथा सालपर्यायः-सालवा, यथा हि सालः सच्छायत्वादिधर्मयुक्त एवं यो ज्ञानक्रियाप्रभवयशःप्रभृःतिगुणयुक्तो भवति स तथोच्यते इत्येकः, तथा सालो नामैक इति तथैव एरण्डपर्यायस्तूतविपर्ययादिति द्वितीयः, एवमितरावपीति १९, तथा सालस्तथैव साल एवं परिवारः--परिकरो यस्य स सालपरिवारः, एवं शेषत्रयमिति ॥३२६॥ Jan Education For Private & Personal use only www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy