SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ सू०३४८-३५२ भीस्थानात सूत्रदीपिका वृत्तिः । ॥३९७॥ २०, आचार्यस्तु साल इव सालो गुरुकुलश्रुतादिभिरुत्तमत्वात् , सालपरिवारः सालकल्पमहानुभाबसाधुपरिवारतात , तथा एरण्डपरिचारः एरण्डकल्पनिर्गुणसाधुपरिकरत्वात् , एवमेरण्डोऽपि श्रुतादिमिहीनत्वादिति, चतुर्थः सुझानः, उक्तचतुर्भङ्गया एव भावनार्थ 'सालदुमे'त्यादिगाथाचतुष्क व्यक्त, नवरं मालम्-असुन्दरम् २१, 'अणुसोपत्ति अनुश्रोतसा चरतीत्यनुश्रोतवारी--नधादिप्रवाहगामी, एवमन्येऽपि त्रयः २२, एवं भिक्षाकः-साधुः, यो बभिग्रहविशेषादपाश्रयसमीपात् कुलेषु क्रमेण भिक्षते सोऽनुश्रोतश्चारिमत्स्यवदनुश्रोतवारी प्रथमः, यस्तूत्क्रमेण गृहेषु भिक्षमाण उपाश्रयमायाति स द्वितीयो, क्षेत्रान्तरेषु ( क्षेत्रान्तेषु) भिक्षते स तृतीयः, क्षेत्रमध्ये चतुर्थः २३, मधुसित्थु-मदन तस्य गोलो-यो वृत्तपिण्डो मधुसित्थुगोलः, एवमन्येऽपि, नबर जतु-लाक्षा, दारुमृत्तिके प्रसिद्ध इति २४, यथेते गोला मृदुकठिनकठिनतरकठिनतमाः क्रमेण भवन्त्येव ये पुरुषाः परिषहादिषु मृदृदृढतरदृहतमसत्वा भवन्ति ते मधुसित्थुगोलसमाना इत्यादिभिर्व्यपदेशैर्व्यपदिश्यन्त इति २५, अयोगोलादयः प्रतीताः २६, पतेचायोगोलकादिभिः क्रमेण गुरुगुरुतरगुरुतमात्यन्त गुरुभिरारम्भादिविचित्रप्रवृत्युपार्जितकर्मभारा ये पुरुषा भवन्ति तेऽयोगोलसमाना इत्यादिव्यपदेशेर्व्यपदेशवन्तो भवन्ति पितृमातृ पुत्रकलत्रगतस्नेहभारतो वेति २७, हिरण्यादिगोलेषु क्रमेणाल्पगुणगुणाधिकगुणाधिकतरगुणाधिकतमेषु पुरुषाः समृद्धितो ज्ञानादिगुणतो वा समानतया योज्याः २८ पत्राणि-पर्णानि तद्वत् प्रतनुतया यानि अस्यादीनि तानि पत्राणीति, असिः--खड़गः स एव पत्रमसिपत्र, करपत्र-क्रकचं येन दारु छिद्यते, क्षुरः--छुरः स एव पत्रं क्षुरपत्र, कदम्बचीरिकेति शखविशेष इति २९, तत्र द्राक् छेदकत्वादसेयः पुरुषो दागेव स्नेहपाशं छिनत्ति सोऽसिपत्रसमानः, अवधारितदेववचनसनत्कुमारचक्रवर्ति वत् , +++++++++++++++++00000000000000000000000000000000004 ॥३९७॥ Jain Education in For Private & Personal use only www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy