SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ सू०३४८-३५२। धीस्थानाक सूत्रदीपिकावृत्तिः । ॥३९८॥ ....+0000...+..००००००००००००००००००००.000000000...... यस्तु पुनः पुनरुच्यमानो भावनाभ्यासात् स्नेहतरुं छिनत्ति स करपत्रसमानः तथाविधश्रावकवत् , करपत्रस्य हि गमनागमनाभ्यां कालक्षेपेण छेदकत्वादिति, यस्तु श्रुतधर्म मार्गोऽपि सर्वथा स्नेहच्छेदासमर्थों देशविरतिमात्रमेव प्रतिपद्यते स क्षुरपत्रसमानः, क्षुरो हि केशादिकमल्पमेव छिनत्तीति, यस्तु स्नेहच्छेदं मनोरथमात्रेणेव करोति स चतुर्थः, अविरतसम्यग्दृष्टिरिति, अथवा यो गुर्वादिषु शीघ्रमन्दमन्दतरमन्दतमतया स्नेह छिनत्ति स एवमुपदिश्यते ३१, कम्बादिभिरातानवितान भावेन निष्पावते यः स कटः, कट इव कट इत्युपचारात् तन्वादिमयोऽपि कट एवेति, तत्र 'सुबकडे'त्ति तृणविशेषनिष्पन्नः 'विदलकडे'त्ति वंशशकलकृतः 'चम्मकडे'त्ति वर्धव्यूतमञ्चकादिः 'कंबलकडे'त्ति कम्बलमेवेति ३२, एतेषु चाल्पबहुबहुतरबहुतमावयवप्रतिबन्धेषु पुरुषा योजनीयाः, तथाहि--यस्य गुर्वादिष्वल्पः प्रतिबन्धः स्वल्पव्यलीकादिनापि विगमात् स मुम्बकटसमान इत्येवं सर्वत्र भावनीयमिति ३३, चतुष्पदाः स्थलचरपञ्चेन्द्रियतिर्यञ्चः, एकः खुरः पादे पादे येषां ते एकखुरा:--अश्वादयः, एवं द्वौ खुरौ येषां ते, ते च गवादयः, गण्डी सुवर्ण कारादीनामधिकरणी गण्डिका तद्वत्पादा येषां ते तथा, इस्त्यादयः, 'सणप्फय'त्ति सनखपदाः नाखराः-सिंहादयः, इहोत्तरसत्रद्वये च जीवानां पुरुषशब्दवाच्यत्वात् पुरुषाधिकार एवेति ३४, चर्ममयपक्षाः पक्षिणश्चर्मपक्षिणो--वल्गुलीप्रभृतयः, एवं लोमपक्षिणो-हंसादयः, समुद्गक इव पक्षी येषां ते समुद्गकपक्षिणः, समासान्त इन्, ते च बहिर्दीपसमुद्रेषु, एवं विततपक्षिणोऽपीति ३५, क्षुद्रा-अधमा अनन्तरभवे सिद्धयभावात् प्राणा-उच्छ्वासादिमन्तः क्षुद्रप्राणाः, संमूर्छनेन निवृत्ताः संमृर्छिमाः, तिरश्चां सत्का योनिर्येषां ते तथा, ततः पदत्रयस्य कर्मधारये सति सम्मूर्छिमपञ्चेन्द्रियतिर्यग्योनिका इति भवति ३६, For Private & Personal use Onty 14...०००००००००.०००००००००००..+000.00000......00000004 ॥३९८० Jan Education Interna www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy