Book Title: Sthanang Sutra Dipika Vrutti
Author(s): Vimalharsh Gani, Mitranandvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 425
________________ सू०३६३ ३६ । श्रीस्थानाङ्ग सूत्रदीपिका वृत्तिः । ॥४१५॥ सा औत्पत्तिकी, ननु क्षयोपशमः कारणमस्याः, सत्य, किन्तु स खल्वन्तरगत्वात् सर्वबुद्विसाधारणः इति न विवक्ष्यते, न चान्यच्छास्त्रकर्माभ्यासादिकमपेक्षत इति, अपि च बुद्धयुत्पादात्पूर्व स्वयमदृष्टोऽन्यतश्चाश्रुतो मनसाऽप्यनालोचितस्तस्मिन्नेव क्षणे यथावस्थितोऽर्थों गृह्यते यया सा लोकद्वयाविरुद्धैकान्तिकफलवती बुद्धिगैत्पत्तिकी नटपुत्ररोहकादीनामिवेति, तथा विनयो-गुरुशुश्रूपा स कारणमस्यास्तत्प्रधाना वा वैनयिकी, अपि च-कार्यभरनिस्तरणसमर्था धर्मार्थकामशास्त्राणां गृहीतसूत्रार्थसारा लोकद्वयफलवती चेयमिति, नैमित्तिकसिद्धपुत्रशिष्यादीनामिवेति, अनाचायकं कर्म साचार्य के शिल्पकादाचित्कं वा कर्म नित्यव्यापारस्तु शिल्पमिति, कर्मणो जाता कर्मजा, अपि चकाभिनिवेशोपलब्धकर्मपरमार्था कर्माभ्यासविचाराभ्यां विस्तीर्णा प्रशंसाफलवती चेति, हैरण्यककर्षकादीनामिवेति, परिणामः-मुदीर्घकालपूर्वापरावलोकनादिजन्य आत्मधर्मः, स प्रयोजनमस्यास्तत्प्रधाना वेति पारिणामिकी, अपि च-अनुमानकारणमात्रदृष्टान्तैः साध्यसाधिका वयोविपाके च पुष्टीभूता अभ्युदयमोक्षफला चेति, यदाह-'अणुमाणहेउदिटुंत-साहिया वयविपक्क(विवाग)परिणामा । हियनिस्सेसफलवई, बुद्धी परिणामिया नाम ॥१॥त्ति, अभयकुमारादीनामिवेति । तथा मननं मतिः, तत्र सामान्यार्थस्याशेषविशेषनिरपेक्षस्यानिर्देश्यस्य रूपादेः अब इतिप्रथमतो ग्रहण-परिच्छेदनमवग्रहः स एव मतिरवग्रहमतिरेव सर्वत्र, नवरं तदर्थविशेषालोचनभीहा, प्रक्रान्तार्थ विशेपनिश्चयोऽवायः, अवगतार्थ विशेषधरणं धारणेति, तथा अरजरम्-उदकुम्भो अलजरमिति यत्प्रसिद्धं तत्र यदुदकं तत्समाना प्रभूतार्थ ग्रहणोत्प्रेक्षणधारणसामार्थ्याभावेनाल्पत्वादस्थिरत्वाच्च, अरञ्जरोदकं हि संक्षिप्त शीघ्र निष्ठित चेति, विदरो-नदीपुलिनादौ जलार्थों गतः, तत्र यदुदकं तत्समाना अल्पत्वादपरापरार्थोहनमात्रसमर्थत्वात् अगि ॥४१५॥ Jain Education For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454