Book Title: Sthanang Sutra Dipika Vrutti
Author(s): Vimalharsh Gani, Mitranandvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 409
________________ ......... श्रीस्थाना सू० ३४९३५२ दीपिकावृत्तिः । ॥३९९॥ 1440060.....+00.00...++++00000....०.०० निपतिता-नीडादवतरीता, अवतरीतु शक्तो नामकः पक्षी धृष्टत्वाद् जडत्वाद्वा न तु परिव्रजिता-न परिवजितुं शीलो (शक्तो) बालत्वादित्येकः, एवमन्यः परिव्रजितु शतः पुष्टत्वान्न तु निपतितुं भीरुत्वादन्यस्तूभयथा चतुर्थस्तूभयप्रतिषेधवानतिबालत्वादिति ३७, निपतिता-भिक्षाचर्यायामवतरीता भोजनाधर्थित्वान्न तु परिव्रजितापरिभ्रमको ग्लानत्वादलसत्वाल्लज्जालुत्वाद्वा इत्येकः, अन्यः परिवजिता-परिभ्रमगशील आश्रयान्निर्गतः सन् न तु निपतिता-भिक्षार्थमवतरीतुमशक्तः सूत्रार्थासक्तत्वादिना, शेषौ पष्टो ३८, निष्कृष्टः-निष्कर्षितः तपसा कृशदेह इत्यर्थः, पुनर्निष्कृष्टो भावतः कृशीकृतकषायत्वादेवमन्ये त्रय इति ३९, एतदभावनार्थ मेवानन्तरं सूत्रनिष्कृष्टः कृशशरीरतया तथा निष्कृष्टः आत्मा कपायनिर्मथनेन यस्य स तथेत्येवमन्येऽपि त्रय इति, अथवा निष्कृष्टस्तपसा कृशीकृतः पूर्व पश्चादपि तथैवेत्येवमादि-सूत्र व्याख्येय, द्वितीयं तु यथोक्तमेवेति ४०, बुधो बुधत्वकार्यभूतसत्क्रियायोगात्, उक्तं च--"पठकः पाठकश्चैव, ये चान्ये तत्त्वचिन्तकाः । सर्वे ते व्यसनिनो ज्ञया, यः क्रियावान् स पण्डितः॥१॥" इमर्बुधः सविवेकमनस्त्वादित्येकः, अन्यो चुधस्तथैव, अधस्त्वविवितमनस्त्वात् , अपरस्त्वबुधोऽसक्रियत्वात् , बुधो विवेकविविक्तचित्तत्वाचतुर्व उभयनिषेधादिति ४१, अनन्तरसूत्रेगैतदेव व्यक्तीक्रियते-बुधः सक्रियत्वात् , बुधं हृदय-मनो यस्य स बुधहृदयो विवेचकमनस्त्वात् , अथवा बुधः शास्त्रज्ञत्वात् बुधहृदयस्तु कार्येष्वमूढलक्षत्वादित्येकः, एवमन्ये त्रय ऊह्याः ४२, आत्मानुकम्पक:-आत्महितप्रवृत्तः प्रत्येकबुद्धो जिनकल्पिको वा परानपेक्षो वा निघृणः, परानुकम्पको निष्ठितार्थ तया तीर्थकरः आत्मानपेक्षो वा दयेकरसो मेतार्थवत् , उभयानुकम्पकः स्थविरकल्पिक, उभयाननुकम्पकः पापात्माकालशौकरिकादिरिति ४३ । ...................................00000000000000000004 JainEducation Intermedia For Private & Personal use only www.iainelibrary.org

Loading...

Page Navigation
1 ... 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454