Book Title: Sthanang Sutra Dipika Vrutti
Author(s): Vimalharsh Gani, Mitranandvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
सू०३४८-३५२।
धीस्थानाक
सूत्रदीपिकावृत्तिः ।
॥३९८॥
....+0000...+..००००००००००००००००००००.000000000......
यस्तु पुनः पुनरुच्यमानो भावनाभ्यासात् स्नेहतरुं छिनत्ति स करपत्रसमानः तथाविधश्रावकवत् , करपत्रस्य हि गमनागमनाभ्यां कालक्षेपेण छेदकत्वादिति, यस्तु श्रुतधर्म मार्गोऽपि सर्वथा स्नेहच्छेदासमर्थों देशविरतिमात्रमेव प्रतिपद्यते स क्षुरपत्रसमानः, क्षुरो हि केशादिकमल्पमेव छिनत्तीति, यस्तु स्नेहच्छेदं मनोरथमात्रेणेव करोति स चतुर्थः, अविरतसम्यग्दृष्टिरिति, अथवा यो गुर्वादिषु शीघ्रमन्दमन्दतरमन्दतमतया स्नेह छिनत्ति स एवमुपदिश्यते ३१, कम्बादिभिरातानवितान भावेन निष्पावते यः स कटः, कट इव कट इत्युपचारात् तन्वादिमयोऽपि कट एवेति, तत्र 'सुबकडे'त्ति तृणविशेषनिष्पन्नः 'विदलकडे'त्ति वंशशकलकृतः 'चम्मकडे'त्ति वर्धव्यूतमञ्चकादिः 'कंबलकडे'त्ति कम्बलमेवेति ३२, एतेषु चाल्पबहुबहुतरबहुतमावयवप्रतिबन्धेषु पुरुषा योजनीयाः, तथाहि--यस्य गुर्वादिष्वल्पः प्रतिबन्धः स्वल्पव्यलीकादिनापि विगमात् स मुम्बकटसमान इत्येवं सर्वत्र भावनीयमिति ३३, चतुष्पदाः स्थलचरपञ्चेन्द्रियतिर्यञ्चः, एकः खुरः पादे पादे येषां ते एकखुरा:--अश्वादयः, एवं द्वौ खुरौ येषां ते, ते च गवादयः, गण्डी सुवर्ण कारादीनामधिकरणी गण्डिका तद्वत्पादा येषां ते तथा, इस्त्यादयः, 'सणप्फय'त्ति सनखपदाः नाखराः-सिंहादयः, इहोत्तरसत्रद्वये च जीवानां पुरुषशब्दवाच्यत्वात् पुरुषाधिकार एवेति ३४, चर्ममयपक्षाः पक्षिणश्चर्मपक्षिणो--वल्गुलीप्रभृतयः, एवं लोमपक्षिणो-हंसादयः, समुद्गक इव पक्षी येषां ते समुद्गकपक्षिणः, समासान्त इन्, ते च बहिर्दीपसमुद्रेषु, एवं विततपक्षिणोऽपीति ३५, क्षुद्रा-अधमा अनन्तरभवे सिद्धयभावात् प्राणा-उच्छ्वासादिमन्तः क्षुद्रप्राणाः, संमूर्छनेन निवृत्ताः संमृर्छिमाः, तिरश्चां सत्का योनिर्येषां ते तथा, ततः पदत्रयस्य कर्मधारये सति सम्मूर्छिमपञ्चेन्द्रियतिर्यग्योनिका इति भवति ३६,
For Private & Personal use Onty
14...०००००००००.०००००००००००..+000.00000......00000004
॥३९८०
Jan Education Interna
www.jainelibrary.org

Page Navigation
1 ... 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454