Book Title: Sthanang Sutra Dipika Vrutti
Author(s): Vimalharsh Gani, Mitranandvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 384
________________ सू०३ ३८। श्रीस्थानाङ्ग सूत्रदीपिका वृत्तिः । 00000000000008 1+000000000000000000000000000000000000 तत्प्रयोगश्चैवम्-अस्ति सुवर्णादिष्पायः उपायेनैव वा सुवर्णादौ प्रवर्तितव्यं, तथाविधधातुवादसिद्धादिवदिति, एवं क्षेत्रोपाय:-क्षेत्रपरिकर्मणोपायो यथा अस्त्यस्य क्षेत्रस्य क्षेत्रीकरणोपायो लाङ्गलादिस्तथाविधसाधुव्यापारो वा, एवं कालोपायः-कालज्ञानोपायो, यथाऽस्ति कालस्य ज्ञाने उपायो धान्यादेवि, जानीहि वा कालं घटिकाच्छायादिनोपायेन तथाभूतगणितज्ञवदिति, एवं भावोपायो यथा भावज्ञाने उपायोऽस्ति भावं वा उपायतो जानीहि, बृहत्कुमारिकाकथाकथनेन विज्ञातचौरादिभावाऽभयकुमारवदिति, तथाहि-किल राजगृहनगरस्वामिनः श्रेणिकराजस्य पुत्रोऽभयकुमाराभिधानो देवताप्रसादोपलब्धसर्व कफलादिसमृद्धारामस्याम्रफलानामकालाम्रफलदोहदबद्भार्यादोहदपूरणार्थ चाण्डालचौरेणापहरणे कृते चौरपरिज्ञानार्थ नाट्यदर्शननिमित्तमिलितबहुजनमध्ये बृहत्कुमारिकाकथामचीकथत् । तथाहि-काचित् बृहत्कुमारिका वाञ्छितवरलाभाय कामदेवपूजार्थमारामे पुष्पाणि चोरयन्ती आरामपतिना गृहीता सद्भावकथने विवाहितया पत्या अपरिभुक्तया मत्पार्श्वे समागन्तव्यमित्यभ्युपगम कारयित्वा मुक्ता, ततः कदाचिद्विवाहिता सती पतिमापृच्छय रात्रावारामपतिपार्श्व गच्छन्ती चौरराक्षसाभ्यां गृहीता सद्भावकथने प्रतिनिवृत्तया भवत्पाचे आगन्तव्यमितिकृताभ्युपगमा मुक्ताऽऽरामे गता आरामिकेण सत्यप्रतिज्ञेत्यखाण्डितशीला विसर्जिता, इतराभ्यामपि तथैव विसर्जिता पतिसमीपमागतेति । ततो भो लोकाः ! पत्यादीनां मध्ये को दुष्करकारक इति चासौ पप्रच्छ, तत ईर्ष्यालुप्रभृतयः पत्यादीन् दुष्करकारकत्वेनाभिदधुः, चौरचाण्डालस्तु चौरानिति, ततोऽसावनेनोपायेन भावमुपलक्ष्य चौर इति कृत्वा तं बन्धयामासेति । अत्रापि गाथे-"एमेव चउविगप्पो, होइ उवाओऽवि तत्थ दव्वम्मि । धाउन्याओ पढमो, नंगलकुलिएहिं खेतं तु ॥१॥ कालोऽवि नालियाई हिं, होइ भावंमि पंडिओ ....+0000००००००००००००००००००००000000000000000000000000 ॥३७४॥ Jan Education For Privals & Fersonal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454