________________
सू०३२०।
श्रीस्थानाङ्ग
सूत्रदीपिका वृत्तिः । ॥३५०॥
100000000000०००००००००000000000000000000000000000000...
भयानुष्ठानरूपत्वात , अथवा पथ्युत्पथयोः स्वपरसमयरूपत्वाद यायित्वस्य च गत्यर्थत्वेन बोधपर्यायत्वात स्वपरसमयबोधापेक्षयेय चतुर्भङ्गी नेयेति, 'चत्तारि पुप्फे त्यादि, एक पुष्पं रूपसम्पन्न न गन्धसम्पन्नमाकुलीपुष्पवद् , द्वितीय बकुलस्येव, तृतीय जातेरिव, चतुर्थ बदर्यादेरिवेति, पुरुषो रूपसम्पन्नो-रूपवान् सुविहितरूपयुक्तो वेति, ७ जाति ६ कुल ५ बल ४ रूप ३ श्रुत २ शील १ चारित्रलक्षणेषु सप्तमु पदेषु एकविंशती द्विकसंयोगेषु एकविंशतिरेव चतुर्भङ्गिकाः कार्याः मुगमाश्चेति । आमलकमिव मधुरं यदन्यद् आमलकमेव वा मधुरमामलकमधुर 'मुदिय'त्ति मृद्वीका-द्राक्षा तद्वत्सैव वा मधुरं मृद्वीकामधुर, क्षीरवत् खण्डवच्च मधुरमिति विग्रहः, यथैतानि क्रमेणेपद्वहुवहुतरबहुतममाधुर्यवन्ति तथा ये आचार्या ईषद्वहुवहुतरबहुतमोपशमादिगुणलक्षणमाधुर्यवन्तस्ते तत्समानतया व्यपदिश्यन्त इति । आत्मवैयावृत्यकरोऽलसो विसम्भोगिको वा, परवैयावृत्यकरः स्वार्थनिरपेक्षः, स्वपरवैयावृत्त्यकरः स्थविरकल्पिकः, कोऽप्युभयविनिवृत्तोऽनशनविशेषप्रतिपनकादिरिति, करोत्येचैको वैयावृत्त्य निःस्पृहत्वात् १, प्रतीच्छत्येवान्य आचार्यत्वग्लानत्वादिना २, अन्यः करोति प्रतीच्छति च स्थविरकल्पिकविशेषः ३, उभयनिवृत्तस्तु | जिनकल्पिकादिरिति ४, 'अहकर'त्ति अर्थान-हिताहितप्राप्तिपरिहारादीन् राजादीनां दिग्यात्रादौ तथोपदेशतः करोतीत्यर्थकरो-मन्त्री नैमित्तिको वा, स चार्थकरो नामैको न मानकरः, कथमहमनभ्यर्थितः कथयिष्यामीत्यवलेपवर्जितः, एवमितरे त्रयः, अत्र च व्यवहारभाष्यगाथा-"पुढापुट्ठो पढमो"इत्यादि, 'गण'त्ति गणस्य-साधुसमुदायस्यार्थान्प्रयोजनादीनि करोतीति गणार्थकरः-आहारादिभिरुपष्टम्भकः, न च मानकरोऽभ्यर्थनानपेक्षत्वात् , एवं त्रयोऽन्ये, उक्तं च-"आहारउवहिसयणाइएहि, गच्छम्सुवग्गह कुणइ । वीओ न जाइ माण, दोण्णिवि तदओ न उ चउत्थो
॥३५॥
Jain Educaban
For Private & Personal use only
www.jainelibrary.org