SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ स०३१४॥ श्रीस्थानाङ्ग सूत्रदीपिका वृत्तिः । ॥३४२॥ जिनागमसङ्गमावदातबुद्धितया आरम्भपरिग्रहौ दुःखपरम्पराकारिसंसारकान्तारकारणभूततया त्याज्यावित्याकलयन् करणभटवशतया तयोः प्रवर्त्तमानयोः (नः) महान्त खेदं सन्तापं भयं चोद्वहतीति, यत्रावसरे शीलानि-समाधानविशेषा ब्रह्मचर्यविशेषा वा, व्रतानि-स्थूलप्राणातिपातविरमणादीनि, अन्यत्र तु शीलानि-अणुव्रतानि व्रतानि-सप्त शिक्षाव्रतानि तदिह न व्याख्यात, गुणव्रतादीनां साक्षादेवोपादानादिति, गुणव्रते-दिग्वतोपभोगपरिभोगबतलक्षणे विरमणानि-अनर्थदण्डविरतिप्रकारा रागादिविरतयो वा, प्रत्याख्यानानि-नमस्कारसहितादीनि, पौषधः-पर्वदिनमष्टम्यादि तत्रोपवसनम्-अभक्तार्थः पौषधोपवासः, एतेषां द्वन्द्वस्तान् प्रतिपद्यते-अभ्युपगच्छति, तत्रापि च 'से' तस्यैक आश्वासः प्रज्ञप्तः १, यत्रापि च सामायिक-सावद्ययोगपरिवर्जननिरवद्ययोगप्रतिसेवनलक्षण तद्वयवस्थितः श्राद्धः श्रमणभूतो भवति, तथा देशे-दिग्वतगृहीतस्य दिकपरिमाणस्य विभागोऽवकाशोऽवस्थानमवतारो यस्य तद्देशावकाशं तदेव देशावकाशिक-दिखतगृहीतस्य दिपरिमाणस्य प्रतिदिन संक्षेपकरणलक्षण सर्वव्रतसंक्षेपकरणलक्षण वाऽनुपालयति, तत्रापि च तस्यैक आश्वासः प्रज्ञप्त इति २, उद्दिष्टेत्यमावास्या परिपूर्णमित्यहोरात्र यावदाहारशरीरसत्कारत्यागब्रह्मचर्याव्यापारलक्षणभेदोपेतमिति ३, यत्रापि च पश्चिमैवाऽमङ्गलपरिहारार्थमपश्चिमा सा चासौ मरणमेवा न्तस्तत्र भवा मारणान्तिकी सा चेत्यपश्चिममारणान्तिकी सा चासौ संलिख्यतेऽनया शरीरकषायादीति संलेखनातपोविशेषः, सा चेति अपश्चिममारणान्तिकीसंलेखना तस्याः 'जूसण 'त्ति जोपणा सेवनालक्षणो यो धर्मस्तया 'जूसिए'त्ति जुष्टः सेवितोऽथवा क्षिप्तः [क्षपितः]-पितदेहो यः स तथा, भक्तपाने प्रत्याख्याते येन स तथा, पादपबदुपगतो-निश्चेष्टतया स्थितः पादपोपगतः, अनशनविशेष प्रतिपन्न इत्यर्थः, काल-मरणकालमनवकाशन तानुत्सुक इत्यर्थः, विहरति-तिष्ठति । ..+0000000000000000000000000000000000000000000000000006 ॥३४२॥ Jain Educatan For Private & Personal use only www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy