________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुञ्जय कल्पवृ०
ESTITSE2525252525252STS
मुक्ता भूमीभुजा ते तु गता अन्यावनीभुजाम् । पार्थे न मानितास्तैस्ते कृत्वा परीक्षणं पुनः ॥ २० ॥ यावज्जीवं ततस्ते तु कुर्वन्तः कलह मिथः । बभुवुर्दुःखिता अत्र परत्र च पदे पदे ॥ २१ ॥ एवं विरोधिनो ये ये मिथी न मन्यते गुरुम् । ते तेऽत्र परलोकेऽपि भवन्ति दु:खिनश्विरम् ॥ २२ ॥ ये ये जना गुरु देवं तातं च जननी ( च मन्वते) वृषम् । ते ते स्वर्गापवर्गादि-सुखभाजो भवन्ति हि ॥ २३ ॥ इत्यादि श्रीजिनेन्द्रोक्तं श्रुत्वा भूरिजनास्तदा । स्वर्गापवर्गसातानि लेभिरे तत्र पर्वते ॥२४॥ एवं परीक्ष्य मन्त्रीशो भटान पञ्चशती वरान् । चक्रे यान् कुर्वते सेवां ते भक्त्या भूपतेः क्रमात् ॥२५॥ एकदा स नृपो मंत्रि-भटादिबहुसंयुतः । शत्रुञ्जये ययौ नन्तुं युगादिजिनपुङ्गवम् ॥ २६ ॥ तत्र श्रीऋषभं तेषां भटानां ध्यावतां मुदा । उत्पन्नं केवलज्ञानं मन्त्रीशस्य तदा पुनः ॥ २७ ॥ क्रमात् सर्वेऽपि सिद्धाद्री मन्त्रीशाया भटाश्च ते । मुक्तिपुर्या समाजग्मु-निःशेषकर्मणां क्षयात् ॥ २८ ॥ मल्लितीर्थकृतो वाचं-यमा अष्टायुतं तदा । शत्रजये इहै वेयु-मुक्तिपुर्या तमःक्षयात् ॥२९ ।।
PSZITSSPSSESESZS5ISSISSES
॥१५५॥
For Private and Personal Use Only